पश्यन्ती
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पश्यन्ती, स्त्री, (पश्यति या दृश् + शतृ + ङीप् । ततः “श्यप्श्यनोर्नित्यम् ।” ७ । १ । ८१ । इति नुम् ।) मूलाधारोत्थितहृदयगतनादरूपवर्णः । यथा, -- “मूलाधारात् प्रथममुदितो यस्तु तारः पराख्यः पश्चात् पश्यन्त्यथ हृदयगो बुद्धियुङ्मध्यमाख्यः ॥” इत्यलङ्कारकौस्तुभः ॥ (यथाच, -- “वैखरीशक्तिनिष्पत्तिर्मध्यमा शुतिगोचरा । द्योतितार्था तु पश्यन्ती सूक्ष्मा वागनपायिनी ॥” इति मल्लिनाथधृतवाक्यम् ॥ ईक्षणकर्त्त्री । इति व्याकरणम् ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पश्यन्ती¦ स्त्री दृश--शतृ ङीप्।
१ दर्शिन्यां स्त्रियां
२ वाग्विशेषे
“प्राणापानान्तरे देवी वाग्वै नित्यं हि तिष्ठति। स्थानेषुविकृते वायौ कृतर्वणपरिग्रहा। वैखरी वाक् प्रयो-क्तॄणां क्रमरूपानुपातिनी। प्राणवृत्तिमनुक्रम्य मध्यमावाक् प्रवर्त्तते। अबिभागा तु पश्यन्ती सर्वतः संहृत-क्रमा। स्वरूपज्योतिरेवातः परा वागनपायिनी” मञ्जूषा-धृतवाक्यम् अस्यार्थः शब्दार्थरत्ने
“चेतनेन ज्ञातार्थविवक्षयातद्बोधकशब्दनिष्पादनाय प्रेरितमन्तःकरणं मूलाधार-स्थितमनलं चालयति तच्चालितश्चानलस्तत्स्थलस्थानिल-चालनाय प्रभवति तच्चालितेन चानिलेन तत्रैव सूक्ष्मरूपे-णोत्पादितः शब्दः परा वागित्यभिधीयते। ततो नाभि-देशपर्य्यन्तं चलितेन तेन तद्देशसंयोगादुत्पादितः शब्दःपश्यन्तीति व्यवह्रियते एतद्द्वयस्य सूक्ष्मतरसूक्ष्मतमतयाईश्वरयोगिमात्रगम्यता नास्मदीयश्रुतिगचिरता। ततस्ते-नैव हृदयदेशं परिसरता हृदयसंयोगेन निष्पादित-शब्दो मध्येत्युच्यत सा च स्वकर्णपिधानेन ध्वन्यात्मकतयासूक्ष्मरूपेण कदाचिदस्माकमपि समधिगम्या। ततोमुखपर्य्यन्तमागच्छता तेन कण्ठदेशं प्राप्य आहत्य मू-र्द्धानं तत्प्रतिघातेन परावृत्य च मुखविवरे कण्ठ दितत्त-दष्टस्थानेषु स्वाभिघातेनोत्पादितः शब्दो वैणरीत्युच्यते” [Page4282-a+ 38]
“वैखरी शब्दनिष्पत्तिर्मध्यमा श्रुतिगोचरा। द्योतितार्थीतु पश्यन्ती{??}क्ष्मा वागनपायिनी” मल्लिनाथधृतवाक्यम्।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पश्यन्ती [paśyantī], 1 A harlot, courtezan.
A particular sound; cf. वैखरी शब्दनिष्पत्तिर्मध्यमा श्रुतिगोचरा । द्योतितार्था च पश्यन्ती सूक्ष्मा वागनपायिनी ॥ Malli. on Ku.2.17; अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा Mañjūṣā.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पश्यन्ती f. a harlot L.
पश्यन्ती f. N. of a partic. sound L.