सामग्री पर जाएँ

पश्वाचार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पश्वाचारः, पुं, (पशूनां तन्त्रोक्ताधिकारिविशेषाणा- माचारः ।) आचारविशेषः । यथा, -- “वेदोक्तेन यजेद्देवीं कामसङ्कल्पपूर्ब्बकम् । स एव वैदिकाचारः पश्वाचारः स उच्यते ॥” इत्याचारभेदतन्त्रम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पश्वाचार¦ पु॰ पशूनामधिकारिविशेषाणामाचारः। तन्त्रोक्तेआचारभेदे पशुभावे
“वेदोक्तेन यजेद्देर्वीं कामसंकल्पपूर्वकम्। स एव वैदिकाचारः पश्वाचारः स उच्यते”। कुब्जिकातन्त्रे

७ प॰
“भावश्च ऐविधो देवि! दिव्य-वीरपशुक्रमात्। विश्वञ्च देवतारूपं भावयेत् सुरसु-न्दरि!। स्त्रीमयञ्च जगत्सर्वं पुरुषं शिवरूपिणम्। अभेदे चिन्तयेत् यस्तु स एव देवतात्मकः। नित्यस्नानंनित्यदानं त्रिसन्ध्यञ्च जपार्चनम्। निर्मलं वसनं देवि!परिधानं समाचरेत्। वेदशास्त्रे दृढज्ञानं गुरौ देवेतथैव च। मन्त्रे चैव दृढज्ञानं पितृदेवार्चनं तथा। बलिवैश्वं तथा श्राद्धं नित्यकार्यं शुचिस्मिते!। शत्रुमित्रसमं देवि! चिन्तयेत्तु महेश्वरि!। अन्नञ्चैव महे-शानि! सर्वेषां परिवर्जयेत्। गुरोरन्नं महेशानि! भो-क्तव्यं सर्वसिद्धये। कदर्य्यञ्च महेशानि! निष्ठुरं परि-वर्जयेत्। देवतानिन्दकं दृष्ट्वा नालापञ्च समाचरेत्। स-त्यञ्च कथयेद्देवि! न मिय्या च कदाचन” महानिर्वा-णतन्त्रे
“दिव्यवीरमयो भावः कलौ नास्ति कदाचन। केवलं पशुभावेन मन्त्रसिद्धिर्भवेन्नृणाम्”।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पश्वाचार/ पश्व्--आचार m. N. of a partic. form of the worship of देवीL.

"https://sa.wiktionary.org/w/index.php?title=पश्वाचार&oldid=286928" इत्यस्माद् प्रतिप्राप्तम्