पह्नव
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पह्नवः, पुं, श्मश्रुधारिम्लेच्छजातिविशेषः । तस्य विवरणं यथा, हरिवंशे । १४ । १५ -- १९ । “सगरस्तां प्रतिज्ञाञ्च गुरोर्वाक्यं निशम्य च । धर्म्मं जघान तेषां वै वेशान्यत्वं चकार ह ॥ अर्द्धं शकानां शिरसो मुण्डयित्वा व्यसर्ज्जयत् । यवनानां शिरः सर्व्वं काम्बोजानान्तथैव च ॥ पारदा मुक्तकेशाश्च पह्नवाः श्मश्रुधारिणः । निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ शका यवनकाम्बोजाः पारदाः पह्नवास्तथा । कोलाः सर्पाः समहिषा दार्व्वाश्चोलाः सकेरलाः ॥ सर्व्वे ते क्षत्त्रियास्तात ! धर्म्मस्तेषां निराकृतः । वशिष्ठवचनाद्राजन् ! सगरेण महात्मना ॥” (क्वचित् पह्लवः पाठोऽपि दृश्यते । यथा, गोः रामायणे । १ । ५५ । १८ । “तस्या हम्भारवोत्सृष्टाः पह्लवाः शतशो नृप ! । अनाशयन् बलं सर्व्वं विश्वामित्रस्य पश्यतः ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पह्नव¦ पु॰ श्मवुधारिम्लेच्छजातिभेदे काम्बोजशब्दे
१९
०७ पृ॰दृश्यम्। स्त्रियां जातित्वात् ङीष्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पह्नव¦ m. (-वः) The name of one of the degraded Kshetriya races sentenced by SAGARA to wear beards, perhaps a Parthian.