सामग्री पर जाएँ

पांशुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पांशुः, पुं, (पंशयति नाशयति आत्मानमिति । पशि नाशने + “अर्ज्जिदृशिकमीति ।” उणां । १ । २८ । इति कुः दीर्घश्च ।) धूलिः । इत्य- मरः । २ । ८ । ९८ ॥ (यथा, मनुः । ४ । १०२ । “कर्णश्रवेऽनिले रात्रौ दिवा पांशुसमूहने । एतौ वर्षास्वनध्यायावध्यायज्ञाः प्रचक्षते ॥”) शस्यार्थचिरसञ्चितगोमयः । सार इति भाषा ॥ इति मेदिनी । शे, ११ ॥ पर्पटः । कर्पूरविशेषः । इति राजनिर्घण्टः ॥ (दन्त्यसकारान्तोऽपि दृश्यते ॥)

"https://sa.wiktionary.org/w/index.php?title=पांशुः&oldid=147797" इत्यस्माद् प्रतिप्राप्तम्