सामग्री पर जाएँ

पांशुलः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पांशुलः, पुं, (पांशुर्विद्यतेऽस्य । पांशु + “सिध्मा- दिभ्यश्च ।” ५ । २ । ९७ । इति लच् ।) हरः । पापी । इति शब्दरत्नावली ॥ पुंश्चलः । शम्भोः खट्वाङ्गम् । इति मेदिनी । ले, १०८ ॥ पूतिकः । का~टाकरञ्ज इति भाषा ॥ इति शब्दचन्द्रिका ॥ पांशुयुक्ते त्रि । इति धरणिः ॥ (पांशुर्दोषः पापञ्च तद्युक्ते च त्रि । यथा, रघुः । २२ । “तस्याः खुरन्यासपवित्रपांशु मपांशुलानां धुरि कीर्त्तनीया । मार्गं मनुष्येश्वरधर्म्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=पांशुलः&oldid=147819" इत्यस्माद् प्रतिप्राप्तम्