पाकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाकः, पुं, (पच् + भावे घञ् ।) पचनम् । क्लेदनम् । तत्पर्य्यायः । पचा २ । इत्यमरः । ३ । २ । ८ ॥ रन्धनम् । स तु सप्तप्रकारो यथा, -- “भर्ज्जनं तलनं स्वेदः पचनं क्वथनं तथा । तान्दूरं पुटपाकश्च पाकः सप्तविधो मतः ॥” भर्ज्जनं केवलपात्रे । तलनं स्नेहद्रव्ये । स्वेदनं अग्न्युत्तापे । पचनं जले । क्वथनं सिद्धद्रव्यरस- ग्रहणे । तान्दूरं द्बारवद्धतप्तयन्त्रे । पुटपाकः अधोर्द्ध्वाग्नितापे ज्ञेयः । इति पाकराजेश्वरः ॥ पेचकः । राष्ट्रादि । भङ्गः । भीतिः । इति शब्द- रत्नावली ॥ दैत्यः । इति हेमचन्द्रः । २ । ८८ ॥ (यथा, भागवते । ७ । २ । ४ । “भो भो दानवदैतेया ! द्विमूर्द्धन् ! त्र्यक्ष ! शम्बर ! । शतबाहो ! हयग्रीव ! नमुचे ! पाक ! इल्वल ! ॥” पिबतीति । पा + “इण्भीकापेति ।” उणां ३ । ४३ । इति कन् ।) पानकर्त्तरि त्रि ॥
