पाकयज्ञः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाकयज्ञः, पुं, (पाकसाध्यो यज्ञः । शाकपार्थिव- वत् समासः ।) वृषोत्सर्गगृहप्रतिष्ठादीनां होमः । चरुहोमाङ्गककर्म्म । यथा, -- “प्रायश्चित्ते विधुश्चैव पाकयज्ञे तु साहसः ॥” इति तिथितत्त्वम् ॥ (ब्रह्मयज्ञादन्ये पञ्चमहायज्ञान्तर्गता वैश्वदेव- होमबलिकर्म्मनित्यश्राद्धातिथिभोजनात्मका- श्चत्वारः पाकयज्ञाः । यथा, मनुः । २ । ८६ । “ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः । सर्व्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥” अष्टकादयोऽपि पाकयज्ञाः । यथा, तत्रैव । २ । १४३ । “अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान् मखान् । यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते ॥” “अष्टकादीन् पाकयज्ञान् ।” इति तट्टीकायां कुल्लुकभट्टः ॥)
