सामग्री पर जाएँ

पाकशासनिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाकशासनिः, पुं, (पाकशासनस्यापत्यम् । “अत इञ् ।” ४ । १ । ९५ । इति इञ् ।) इन्द्रपुत्त्रः । जयन्तः । इत्यमरः । १ । १ । ४९ ॥ (अर्ज्जुनः । यथा, महाभारते । १ । १३७ । ८ । “सोऽब्रवीन्मेघगम्भीरस्वरेण वदताम्बरः । भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=पाकशासनिः&oldid=147856" इत्यस्माद् प्रतिप्राप्तम्