पाकसंस्थ
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाकसंस्थ¦ त्रि॰ पाकः संस्था यस्य। पाकसाध्ये यज्ञभेदे। स च गोतमेन दर्शितः
“अष्टका पार्वणश्राद्धं श्रावण्या-ग्रहायणीचैत्राश्वयुजी चेति सप्त पाकसंस्थाः”। हारीतः
“पाकयज्ञान्यजेन्नित्यं हविर्यज्ञांश्च नित्यशः। सोमांश्चविधिपूर्वेण य इच्छेद्धर्ममव्ययम्”।
