सामग्री पर जाएँ

पाक्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाक्यम्, क्ली, (पच्यतेऽनेन । पच् + “ऋहलोर्ण्यत् ।” ३ । १ । १२४ । इति ण्यत् । “चजोः कुघिण्यतोः ।” ७ । ३ । ५२ । इति कुत्वम् ।) विड्लवणम् । इत्यमरः । २ । ९ । ४२ ॥ पांशुलवणम् । इति रत्नमाला ॥ (यथा, सुश्रुते । १ । ४२ । “सैन्धवसौवर्च्चलविडपाक्यरोमकसामुद्रकपक्त्रिम- यवक्षारोषप्रसूतसुवर्च्चिकाप्रभृतीनि समासेन लवणो वर्गः ॥” पचनीये, त्रि । यथा, चक्रपाणि- संग्रहे ज्वराधिकारे पित्तज्वरचिकित्साथाम् । “अवश्यायस्थितं पाक्यमेतत् पित्तज्वरापहम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=पाक्यम्&oldid=147868" इत्यस्माद् प्रतिप्राप्तम्