सामग्री पर जाएँ

पाक्षिकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाक्षिकः, त्रि, (पक्षे तिष्ठतीति । पक्ष + ठक् ।) पक्षपाती । यथा, -- “स को राजा न शास्ता यः प्रजावध्यश्च पाक्षिकः ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे १४ अध्यायः ॥ (पक्षिणो हन्तीति । “पक्षिमत्स्यमृगान् हन्ति ।” ४ । ४ । ३५ । इति ठक् ।) पक्षिघातकः ॥ (पक्षे पक्षान्तरे भवतीति । पक्षकालभवः ॥ पक्षेण निर्वृत्त इति । पक्ष + ठञ् । पक्षसाध्यः । इति व्युत्पत्तिलब्धोऽर्थः ॥)

"https://sa.wiktionary.org/w/index.php?title=पाक्षिकः&oldid=147873" इत्यस्माद् प्रतिप्राप्तम्