पाङक्त
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाङक्त¦ त्रि॰ षङ्क्तौ भवादि वा उत्सा॰ अञ्।
१ पङ्क्तिभवे
२ दशाक्षरपादकछन्दोभेदयुते च। पङ्क्तिसंख्याऽस्त्यस्यअण्।
३ तत्संख्यायुतावयवयुते पशौ
४ पुरुषे च
“पा-ङ्क्तः पुरुषः पाङ्क्ताः पशवः” ताण्ड्यव्रा॰
२४
२ ।
“पाङ्क्त्याख्ये छन्दसि पञ्चसंख्या विद्यते तस्य पञ्चभिःपदैरुपेतत्वात् पुरुषेऽपि द्वौ हस्तौ द्वौ पादौ शिरश्चेतिपञ्चसङ्ख्या विद्यते पशुष्वपि चत्वारः पादाः पुच्छञ्चेतिपञ्चसंख्यास्ति” भा॰ पङ्क्तिच्छन्दसः दशाक्षरपादकत्वात्चतुर्षु चरणेषु चत्वारिंशदक्षराणि सन्ति तेन अनु-ष्टुपा गणनया पञ्चपादत्वमिति बोध्यम्।
