पाचन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाचनम्, क्ली, (पाच्यतेऽनेनेति । पच् + णिच् + करणे ल्युट् ।) प्रायश्चित्तम् । इति मेदिनी । ने, ९० ॥ दोषपाचकक्वाथौषधम् । तस्य दान- कालः । यथा, सारकौमुद्याम् । “ज्वरितं षडहेऽतीते लघ्वन्नप्रतिभोजितम् । सप्ताहात् परतोऽस्तब्धे सामे स्यात् पाचनं ज्वरे ॥” सर्व्वेषां पाचनद्रव्यानां परिमाणं यथा, -- “दशरक्तिकमाषेण गृहीत्वा तोलकद्वयम् । दत्त्वाम्भः षोडशगुणं ग्राह्यं पादावशेषितम् ॥” इति परिभाषा ॥ अथ सर्व्वज्वरे पाचनम् । “नागरं देवकाष्ठञ्च धन्याकं बृहतीद्बयम् । दद्यात् पाचनकं पूर्ब्बं ज्वरिताय ज्वरापहम् ॥” इति नागरादि ॥ १ ॥ अथ वातिकज्वरे । “विल्वादिपञ्चमूलस्य क्वाथः स्याद्बातिकज्वरे ॥” इति विल्वादिपञ्चमूली ॥ २ ॥ “पाचनं पिप्पलीमूलगुडूची विश्वजोऽथवा ॥” इति पिप्पलीमूलादि ॥ ३ ॥ “सघृतं त्रिफलाक्वाथं स्तनरोगहरं पिवेत् ॥” इति सघृतत्रिफलाक्वाथः ॥ ३११ ॥ * ॥ अथ सूतिकारोगे । “अमृतानागरसहचरभद्रोत्कटपञ्च-मूलजलद- जलम् ॥ शृतशीतं मधुयुतं निवारयति सूतिकातङ्कम् ॥” इति सूतिकादशमूलम् ॥ ३१२ ॥ “सहचरपुष्करवेतसमूलं वैकङ्कतदारुकुलत्थ- समम् । जलमत्र ससैन्धवहिङ्गुयुतं सद्यो ज्वरसूतिक- शूलहरम् ॥” इति सहचरादि ॥ ३१३ ॥ “दशमूलीकृतः क्वाथः सद्यः सूतीरुजापहः ॥” इति दशमूली ॥ ३१४ ॥ * ॥ अथ मक्कल्लशूले । “सूताया हृच्छिरोवस्तिशूलं मक्कल्लसंज्ञितम् । यवक्षारं पिवेत्तत्र मस्तुनोष्णोदकेन वा ॥ पिप्पल्यादिगणक्वाथं पिबेद्वा लवणान्वितम् ॥” इति पिप्पल्यादिगणक्वाथः ॥ ३१५ ॥ इति स्त्रीरोगाधिकारः ॥ * ॥ अथ बालरोगे । “भैषज्यं पूर्ब्बमुद्दिष्टं नराणां यज्ज्वरादिषु । कार्य्यन्तदेव बालानां मात्रा त्वस्य कनीयसी ॥ हरिद्राद्वययष्ट्याह्वसिंहीशक्रयवैः कृतः । शिशोर्ज्वरातिसारघ्नः कषायः स्तन्यदोषजित् ॥” इति हरिद्रादि ॥ ३१६ ॥ “विल्वञ्च पुष्पाणि च धातकीनां जलं सलोध्रं गजपिप्पली च । क्वाथावलेहौ मधुना विमिश्रौ बालेषु योज्यावतिसारितेषु ॥” इति विल्वादिक्वाथः ॥ ३१७ ॥ “समङ्गाधातकीलोध्रशारिवाभिः शृतं जलम् । दुर्व्वारेऽपि शिशोर्देयमतीसारे समाक्षिकम् ॥” इति समङ्गादि ॥ ३१८ ॥ “नागरातिविषामुस्तबालकेन्द्रयवैः शृतम् । कुमारं पाययेत् प्रातः सर्व्वातीसारनाशनम् ॥” इति नागरादि ॥ ३१९ ॥ “विल्वमूलकषायेण लाजाश्चैव सशर्कराः । आलोड्य पाययेद्बालं छर्द्द्यतीसारनाशिनीः ॥” इति सशर्करलाजयुक्तविल्वमूलकषावः ॥ ३२० ॥ “पटोलत्रिफलारिष्टहरिद्राक्वथितं पिबेत् क्षतविस्फोटवीसर्पज्वराणां शान्तये शिशुः ॥” इति पटोलादि ॥ ३२१ ॥ * ॥ अथ विषे । “कटभ्यर्ज्जुनशौरीयशेलुक्षीरिद्रुमत्वचः । कषायकल्कचूर्णाः स्युः कीटलूतावणापहाः ॥” इति कटभ्यादि ॥ ३२२ ॥ इति चक्रपाणिदत्तः ॥
पाचनम्, त्रि, पाचयिता । इति मेदिनी । ने, ९१ अथ किशिष्टद्रव्याजीर्णे विशिष्टं पाचनद्रव्यमाहा । “अलं पनसपाकाय फलं कदलसम्भवम् । कदलस्य तु पाकाय बुधैरभिहितं घृतम् ॥ घृतस्य परिपाकाय जम्बीरस्य रसो हितः ॥ चञ्चूक चेचु इति लोके । गायत्त्री खदिरः ॥ पलङ्किकाकेमुककारवेल्ली- वार्त्ताकुवंशाङ्कुरमूलकानाम् । उपोदिकालावुपटोलकानां सिद्धार्थको मेघरवस्य पक्ता ॥ मेघरवः चवराई इति लोके । विपच्यते शूरणकं गुडेन तथालुकं तण्डुलजोदकेन । पिण्डालुकं जीर्य्यति कोरदूषात् कशेरुपाकः किल नागरेण ॥ लवणस्तण्डुलतोयात् सर्पिर्जम्बीरकाद्यम्लात् । मरिचादपि तच्छीघ्रं पाकं यात्येव काञ्जिका- त्तैलम् ॥ क्षीरं जीर्य्यति तक्रेण तद्गव्यं कोष्णमण्डकात् । माहिषं माणिमन्थेन शङ्खचूर्णेन तद्दधि ॥ मण्डकः माण्डे इति लोके । रसाला जीर्य्यति व्योषात् खण्डं नागरभक्षणात् । सिता नागरमुस्तेन तथेक्षुश्चाद्रिकारसात् ॥ जरामिरा गैरिकचन्दनाभ्या- मभ्येति शीघ्रं मुनिभिः प्रणीतम् । उष्णेन शीतं शिशिरेण चोष्णं जीर्णो भवेत् क्षारगणस्तथाम्लैः ॥ इरा मदिरा । तप्तं तप्तं हेम वा तारमग्नौ तोये क्षिप्तं सप्तकृत्वस्तदम्भः । पीत्वाजीर्णं तोयजातं निहन्या- त्तत्र क्षौद्रं भद्रमुस्तं विशेषात् ॥ तत्र तोयाजीर्णे । इति भावप्रकाशे जठ- राग्निविकाराजीर्णविसूचिकालसकविलम्बिका- चिकित्सा ॥
पाचनः, पुं, (पाचयतीति । पच् + णिच् + “नन्दि- ग्रहीति ।” ३ । १ । १३४ । इति ल्युः ।) अग्निः । इति मेदिनी । ने, ९० ॥ अम्लरसः । इति हेम- चन्द्रः । ६ । २४ ॥ रक्तैरण्डः । इति राज- निर्घण्टः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाचन¦ न॰ पाचयति कर्त्तरि ल्युपाच्यतेऽनेन करणे ल्युट् वा।
१ पापक्षयकारके प्रायश्चित्ते मेदि॰ तस्य फलानुत्पादनेनपापस्य नाशनात् तयात्वम्।
२ दोषपाचनसाधनद्रव्यभेदेतानि च चक्रपाणिदत्तेन रोगभेदे नानाविधान्युक्तानितत्र दृश्यानि तत्प्रदानकालश्च
“ज्वरितं षडहेऽतीतेलष्वन्नमतिभोजनम्। सप्ताहात् पच्यतेऽस्तब्धे सामेख्यात् पाचनं हितम्”। सर्वपाचनद्रव्यप्रमाणं वैद्यकेउक्तं यथा
“दशरत्तिकमाषेण गृहीत्वा तोलकद्वयम्। दत्त्वाम्भः षोडशगुणं ग्राह्यं पादावशेषितम्”
३ अग्नौ पु॰मेदि॰।
४ अम्लरसे हेमच॰।
५ रक्तैरण्डे पु॰ राजनि॰
६ ह। रितक्यां स्त्री ङीप् मेदि॰। स्वार्थे क। पाचनक तत्रार्थेषुपाचन + सं ज्ञायां कन्। टङ्कने (सोहागा) हेमच॰। [Page4287-b+ 38]
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाचन¦ mfn. (-नः-नी-नं)
1. What cooks or ripens, &c.
2. Disgestive. Suppurative. n. (-नं)
1. A medicinal preparation, an infu- sion, a decoction, &c. of various drugs, chiefly carminatives or gentle stimuli given to bring the vitiated humours in fever, &c. to maturity, a sort of diet drink.
2. Penance, expiation.
3. The act of cooking, or ripening. m. (-नः)
1. Fire.
2. Acidity, sourness. f. (-नी)
1. A sort of myrobalan, (Terminalia, chebula.)
2. Cooking, ripening, E. पच् to dress, in the causal form, aff. ल्युट् |
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाचन [pācana], a. (-नी f.) [पाचयति कर्तरि ल्युः पाच्यते$नेन करणे ल्युट् वा]
Cooking.
Ripening.
Digestive.
Softening, relaxing.
Suppurative.
नः Fire.
Sourness, acidity.
नम् The act of cooking.
The act of ripening.
A dissolvent, digestive medicine.
Causing a wound to close.
Penance, expiation (प्रायश्चित्त).
Infusion.
Decoction.
Extracting extraneous substances from a wound.
A cataplasm.
A substance used in closing wounds or restraining bleeding.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाचन mf( ई)n. causing to cook or boil , softening , digestive Sus3r.
पाचन mf( ई)n. sour L.
पाचन mf( ई)n. suppurative W.
पाचन m. fire L.
पाचन m. red ricinus L.
पाचन m. acidity , sourness W.
पाचन n. the act of cooking or baking etc.
पाचन n. causing a wound to close , a stypic for closing wounds Sus3r.
पाचन n. extracting extraneous substances from a wound etc. by means of cataplasms , a cataplasm ib.
पाचन n. a dissolvent , digestive ib. Car.
पाचन n. any medicinal preparation or decoction W.
पाचन n. a sort of drink ib.
पाचन n. penance , expiation L.