पाञ्चजन्यः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाञ्चजन्यः, पुं, (पञ्चजने दैत्यविशेषे भवः । “पञ्च- जनादुपसंख्यानम् ।” ४ । ३ । ५८ । इत्यस्य वार्त्तिकोक्त्या ञ्यः ।) विष्णुशङ्खः । इत्यमरः । १ । १ । २९ ॥ “पञ्चजनो नाम दैत्यः समुद्रे तिमि- रूप आसीत् तदस्थिजत्वात् ।” इति भरतः ॥ (यथा, गीतायाम् । १ । १५ । “पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्म्मा वृकोदरः ॥” अस्य विवरणम् यथा, हरिवंशे । ८९ । १५ -- १७ । “समुद्रः प्रत्युवाचेदं दैत्यः पञ्चजनो महान् । तिमिरूपेण तं बालं ग्रस्तवानिति माधव ! ॥ स पञ्चजनमासाद्य जघान पुरुषोत्तमः । न चाससाद तं बालं गुरुपुत्त्रं तदाच्युतः ॥ स तु पञ्चजनं हत्वा शङ्खं लेभे जनार्द्दनः । यः स देवमनुष्येषु पाञ्चजन्य इति श्रुतः ॥” पञ्चभिः काश्यपवशिष्टप्राणाङ्गिरसच्यवनैर्जनै- र्निर्वृत्तः । इति ष्यञ् ।) अग्निः । इति मेदिनी । ये, १२२ ॥ (यथा, महाभारते । ३ । २१९ । १-५ । “काश्यपो ह्यथ वाशिष्ठः प्राणश्च प्राणपुत्त्रकः । अग्निराङ्गिरसश्चैव च्यवनस्त्रिसुवर्च्चकः ॥ अचरत् स तपस्तीव्रं पुत्त्रार्थे बहुवार्षिकम् । पुत्त्रं लभेयं धर्म्मिष्ठं यशसा ब्रह्मणा समम् ॥ महाव्याहृतिभिर्ध्यातः पञ्चभिस्तैस्तदा त्वथ । जज्ञे तेजो महार्च्चिष्मान् पञ्चवर्णः प्रभावनः ॥ समिद्धोऽग्निः शिरस्तस्य बाहू सूर्य्यनिभौ तथा । त्वङ्नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत ! ॥ पञ्चवर्णः सुतपसा कृतस्तैः पञ्चभिर्जनैः । पाञ्चजन्यः श्रुतो देवः पञ्चवंशकरस्तु सः ॥” हारीतमुनिवंशीयस्य दीर्घबुद्धेः पुत्त्रः । इति स्कन्धपुराणे सह्याद्रिखण्डम् । १ । २७ । ४२ ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाञ्चजन्यः [pāñcajanyḥ], 1 N. of the conch of Kriṣna; स तु पञ्चजनं हत्वा शङ्खं लेभे जनार्दनः । स च देवमनुष्येषु पाञ्चजन्य इति श्रुतः ॥ Hariv.; (दधानो) निध्वानमश्रूयत पाञ्चजन्यः Śi.3.21; Bg.1.15.
Kāśyapa, Vasiṣṭha, Prāṇa, Aṇgirasa, and Chyavana.
अग्नि produced from the five fires; Śabda Chi.-Comp. -धरः an epithet of Kriṣna.
