पाञ्चालः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाञ्चालः, त्रि, (पञ्चाले तदाख्यया प्रसिद्धे प्रदेशे भवः । “तत्र भवः ।” ४ । ३ । ५३ । इत्यण् ।) पञ्चालदेशोद्भवः ॥
पाञ्चालः, पुं, (पञ्चभिः प्रधानाभिर्नदीभिरलति पर्य्याप्नोतीति पञ्चालः । ततः स्वार्थे अण् ।) देशविशेषः । स तु द्रुपदराजनगरम् । अधुना फरक्कावाद इति ख्यातः ॥ (यथा, महाभारते । १ । १३८ । ३ । “पाञ्चालराजं द्रुपदं गृहीत्वा रणमूर्द्धनि । पर्य्यानयत भद्रं वः सा स्यात् परमदक्षिणा ॥” तद्देशवासिषु पुं भूम्नि ।) यथा, -- “पाञ्चालाश्चेदिमत्स्याश्च शूरसेनाः पटच्चराः ।” इत्यादि विराटपर्व्व ॥ (ब्रह्मदत्तस्य सहचरविशेषः । यथा, हरिवंशे । २३ । २२ । “पाञ्चालकण्डरीकाभ्यां तस्य सख्यमभूत्तदा ॥”)
