पाञ्चालम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाञ्चालम्, क्ली, (पञ्चाल एव । पञ्चाल + स्वार्थे अण् ।) शास्त्रम् । यथा, -- “पितृहूर्नृपपुर्य्या द्बार्द्दक्षिणेन पुरञ्जनः । राष्ट्रं दक्षिणपञ्चालं याति श्रुतधरान्वितः ॥ इति श्रीभागवते । ४ । पुरञ्जनोपाख्याने । २५ । ५० ॥ “पञ्चानां विषयाणामन्यतोऽनवगतानां प्रकाश- नायालमिति पञ्चालं शास्त्रम् ।” इति । “प्रवृत्तञ्च निवृत्तञ्च शास्त्रं पञ्चालसंज्ञकम् ।” इति च तट्टीकायां श्रीधरस्वामी ॥ अत्र पञ्चालमिति पाठः किन्तु स्वार्थे ष्णप्रत्यये पाञ्चालमपि भवति ॥
