पाटला
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाटला, स्त्री, (पाटलो वर्णोऽस्त्यस्याः । पाटल- वर्णत्वादेवास्यास्तथात्वम् ।) दुर्गा । यथा, -- “अपर्णानेकपर्णा च पाटला पाटलावती ॥” इति तन्त्रसारे तस्याः शतनामस्तोत्रम् ॥ पुष्पवृक्षविशेषः । पारुल इति भाषा ॥ तत्- पर्य्यायः । पाटलिः २ अमोघा ३ काचस्थाली ४ फलेरुहा ५ कृष्णवृन्ता ६ कुवेराक्षी ७ । इत्य- मरः ॥ ताम्रपुष्पी ८ कुम्भिका ९ सुपुष्पिका १० वसन्तदूती ११ स्थाली १२ स्थिरगन्धा १३ अम्बवासी १४ कालवृन्ती १५ । इति राज- निर्घण्टः ॥ मधुदूती १६ कालास्थली १७ अलि- वल्लभा १८ । इति भावप्रकाशः ॥ कामदूती १९ कुम्भी २० तोयाधिवासिनी २१ । इति रत्न- माला ॥ अस्या गुणाः । तिक्तत्वम् । कटुत्वम् । उष्णत्वम् । कफवातशोफाध्मानवमिश्वाससन्नि- पातनाशित्वञ्च । इति राजनिर्घण्टः ॥ तुव- रत्वम् । अनुष्णत्वम् । दोषत्रयारुचिहिक्का- तृष्णानाशित्वञ्च ॥ तत्पुष्पगुणाः । कषायत्वम् । मधुरत्वम् । हिमत्वम् । क्लेद्यत्वम् । कफाम्र- नाशित्वञ्च । तत्फलगुणाः । पित्तातिसारदाह- नाशित्वम् । हिक्कास्रपित्तकारित्वञ्च । इति भावप्रकाशः ॥ * ॥ तदुत्पत्तिर्यथा, -- “गते ब्रह्मणि सर्वोऽपि तपः संहृत्य तं तदा । लिङ्गं चित्रबने सूक्ष्मं प्रतिष्ठाप्य चचार ह ॥ विचरन्तं तदा भूयो महेशं कुसुमायुधः । आरात् स्थित्वाग्रतो धन्वी सन्तापयितुमुद्यतः ॥ ततस्तमग्रतो दृष्ट्वा क्रोधाध्मातदृशा हरः । स्मरमालोकयामास शिखाग्राच्चरणान्तिकम् ॥ आलोकितस्त्रिनेत्रेण मदनो द्युतिमानपि । प्रादह्यत तदा ब्रह्मन् पादादारभ्य कक्षवत् ॥ प्रदह्यमानौ चरणौ दृष्ट्वासौ कुसुमायुधः । उत्ससर्ज धनुः श्रेष्ठं तज्जगामाथ पञ्चधा ॥ यदासीन्मुष्टिबन्धस्तु रुक्मपृष्ठो महाप्रभः । स चम्पकतरुर्जातः स्रग्गन्धाढ्यो गुणाकृतिः ॥ नाहस्थानं शुभाकारं यदासीद्बज्रभूषितम् । तज्जातं केशरारण्यं वकुलं नामतो नगैः ॥ या च कोटी शुभा ह्यासीदिन्द्रनीलविभूषिता । जाता सा पाटला रम्या भृङ्गराजिविभूषिता ॥” इति वामने ६ अध्यायः ॥ रक्तलोध्रः । इति शब्दचन्द्रिका ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाटला स्त्री-नपुं।
पाटलकुसुमः
समानार्थक:पाटला
2।4।20।1।1
विदार्याद्यास्तु मूलेऽपि पुष्पे क्लीबेऽपि पाटला। बोधिद्रुमश्चलदलः पिप्पलः कुञ्जराशनः॥
पदार्थ-विभागः : अवयवः
पाटला स्त्री।
पाटला
समानार्थक:पाटलि,पाटला,अमोघा,काचस्थाली,फलेरुहा,कृष्णवृन्ता,कुबेराक्षी
2।4।54।2।2
पूतिकाष्ठं च सप्त स्युर्देवदारुण्यथ द्वयोः। पाटलिः पाटला मोघा काचस्थाली फलेरुहा॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाटला [pāṭalā], 1 The red Lodhra.
The trumpet-flower (the tree or its blossom).
An epithet of Durgā.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाटला f. Bignonia Suaveolens Ka1v.
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--the goddess enshrined at पुण्ड्रवर्धन. M. १३. ३५.
(II)--a तीर्थ sacred to पितृस्. M. २२. ३३.