सामग्री पर जाएँ

पाटलिपुत्त्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाटलिपुत्त्रम्, क्ली, (पाटलिः पुत्त्र इव यस्य । बहु- पाटलिवृक्षोत्पत्तिस्थानत्वेनास्य तथात्वम् ।) नगरविशेषः । पाटना इति ख्यातः । तत्पर्य्यायः । कुसुमपुरम् २ । इति हेमचन्द्रः । ४ । ४२ ॥ पुष्पपुरम् ३ पाटलिपुत्त्रकम् ४ । इति त्रिकाण्ड- शेषः ॥ (इदन्तु गङ्गातीरस्थम् । यथा हितोप- देशे । “अस्ति भागीरथीतीरे पाटलीपुत्त्रनाम- धेयं नगरम् ॥” इदमेव पुरा मगधानां राजधानी आसीत् । अत्रत्यसुदर्शननाम्नो भूपतेः पुत्त्राणां नीति- विद्याधिगमाय विद्वत्कुलचूडामणिना विष्णु- शर्म्मणा पञ्चतन्त्रहितोपदेशादयो ग्रन्था विर- चिताः ॥)

"https://sa.wiktionary.org/w/index.php?title=पाटलिपुत्त्रम्&oldid=147927" इत्यस्माद् प्रतिप्राप्तम्