सामग्री पर जाएँ

पाणितलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाणितलम्, क्ली, (पाणितलमिव परिमाणमस्त्य- स्येति । अच् ।) कर्षपरिमाणम् । तोलकद्बयम् । इति वैद्यकपरिभाषा ॥ (पर्य्यायोऽस्या यथा, -- “कोलद्वयञ्च कर्षः स्यात् स प्रोक्ता पाणिमालिका । अक्षं पिचुःपाणितलं किञ्चित्पाणिश्च तिन्दुकम् ॥ विडालपदकञ्चैव सुवर्णं कवलग्रहः । उदम्बरश्च पर्य्यायैः कर्ष एव निगद्यते ॥” इति शार्ङ्गधरे पूर्ब्बखण्डे प्रथमेऽध्याये ॥ पर्य्यायान्तरं यथा, -- “विद्याद्द्वौ द्रंक्षणौ कर्षं सुवर्णञ्चाक्षमेव च । विडालपदकन्तच्च पिचुम्पाणितलन्तथा ॥ तिन्दुकञ्च विजानीयात् कवडग्रहमेव च ॥” इति चरके कल्पस्थाने द्वादशेऽध्याये ॥ पाणेस्तलम् ।) हस्ताधोभागः ॥ (यथा, मनौ । ४ । १४३ । “स्पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् । गात्राणि चैव सर्व्वाणि नाभिं पाणितलेन तु ॥”)

"https://sa.wiktionary.org/w/index.php?title=पाणितलम्&oldid=147975" इत्यस्माद् प्रतिप्राप्तम्