पाणिनिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाणिनिः, पुं, (पणिनो मुनेर्युवापत्यम् । पणिन् + इञ् । न टिलोपः ।) मुनिविशेषः । तत्पर्य्यायः । आहिकः २ दाक्षीपुत्त्रः ३ शालङ्की ४ पाणिनः ५ शालातुरीयः ६ । इति त्रिकाण्डशेषः ॥ * ॥ (अयं हि पणिन्-वंशसम्भूतः प्रसिद्धो व्याकरण- कर्त्ता । अस्य माता दाक्षी इत्याख्यया विश्रुता । यथा, पातञ्जलकारिकायाम् । १ । १ । २० । “सर्व्वे सर्व्वपदादेशा दाक्षीपुत्त्रस्य पाणिनेः ॥” तथाच शिक्षायाम् । ५६ । “शङ्करः शाङ्करीं प्रादाद्दाक्षीपुत्त्राय धीमते । वाङ्मयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः ॥” अस्य शालातुरीय इत्याख्यापि दृश्यते । यथा, अभिधानचिन्तामणौ । ३ । ५१५ । “ -- अथ पाणिनौ । शालातुरीयदाक्षेयौ -- ॥” “गान्धारप्रदेशविशेषशलातुरग्रामजातत्वा- देवास्य तथा नाम ।” इति चिन्तामणिटीका ॥ परे तु शलातुरग्रामोऽस्य जन्मस्थानमिति न स्वीकुर्व्वन्ति । यतः शलातुरोऽभिजनोऽस्य इति व्युत्पत्त्या शालातुरशब्देन शलातुरदेशोद्भवे जने एवार्थो नावगम्यते । अष्टाध्यायीसूत्र- पाठस्य “तूदीशलातुरवर्म्मतीकूचवारात् ढक् छण् ढञ् यकः ।” ४ । ३ । ९४ । सूत्रात् अभि- जनार्थे एव छण्प्रत्ययः । वृत्तिकारभट्टोजी- दीक्षितेन तु “अभिजनश्च ।” ४ । ३ । ९० । इति सूत्रे “यत्र स्वयं वसति स निवासः । यत्र पूर्ब्बैरुषितं सोऽभिजनः ।” इत्यभिजनशब्द- स्यार्थः प्रदर्शितः । अतः स्पष्टतः शलातुर- प्रदेशः पाणिनेः पूर्ब्बपुरुषाणां वासस्थानमित्ये- वावगम्यते नतु तस्येति ।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाणिनिः [pāṇiniḥ], N. of a celebrated grammarian who is considered as an inspired muni, and is said to have derived the knowledge of his grammar from Śiva; येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं चक्रे तस्मै पाणिनये नमः ॥ Śekhara.
