सामग्री पर जाएँ

पाण्डुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाण्डुः, पुं, (पडि गतौ + “मृगय्वादयश्च ।” उणां । १ । ३८ । इति कुप्रत्ययः निपातनात् धातो- र्द्दीर्घश्च ।) पाण्डुरफलीक्षुपः । पटोलः । इति राजनिर्घण्टः ॥ शुक्लपीतमिश्रितवर्णः । तत्- पर्य्यायः । हरिणः २ । पाण्डुरः ३ । इत्यमरः ॥ पाण्डरः ४ । इति हड्डः ॥ “सितपीतसमायुक्तः पाण्डुवर्णः प्रकीर्त्तितः ॥” इति सुभूतिः ॥ भेदोऽपि दृश्यते यथा, -- “पाण्डुरस्तु रक्तपीतभागी प्रत्यूषचन्द्रवत् । पाण्डुस्तु पीतभागार्द्धः केतकीधूलिसन्निभः ॥” इति भरतः ॥ तद्वति, त्रि । इत्यमरः ॥ (यथा रघुः । ३ । २ । “शरीरसादादसमग्रभूषणा मुखेन सालक्ष्यत लोध्रपाण्डुना ॥” नृपतिविशेषः । स तु शन्तनुपुत्त्रविचित्रवीर्य्यस्य क्षेत्रे व्यासाज्जातः । (यथा, महाभारते । १ । ११८ । ५ । “राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते । चरन् मैथुनधर्म्मस्थं ददर्श मृगयूथपम् ॥” अस्य देहपाण्डुताकारणं नामनिरुक्त्यादिकं च यथा, महाभारते । १ । १०६ । १५-१८ । “अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि तम् । विषण्णा पाण्डुसङ्काशा समपद्यत भारत ! । तां भीतां पाण्डुसङ्काशां विषण्णां प्रेक्ष्य भारत ! ॥ व्यासः सत्यवतीपुत्त्र इदं वचनमब्रवीत् । यस्मात् पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामिह ॥ अस्मादेष सुतस्ते वै पाण्डुरेव भविष्यति । नाम चास्यैतदेवेह भविष्यति शुभानने ! ॥”) नागभेदः । श्वेतहस्ती । सितवर्णः । रोग विशेषः । इति शब्दरत्नावली ॥ * ॥ पाण्डुरोगनिदानम् । यथा, -- “पाण्डुरोगाः स्मृताः पञ्च वातपित्तकफैस्त्रयः । चतुर्थः सन्निपातेन पञ्चमो भक्षणान्मृदः ॥ व्यायाममम्लं लवणानि मद्यं मृदं दिवास्वप्नमतीवतीक्ष्णम् । इति वैद्यकरसेन्द्रसारसंग्रहे पाण्डुरोगाधि- कारे ॥ * ॥ * ॥)

पाण्डुः, स्त्री, (पडि + कुः । निपातनात् दीर्घत्वम् ।) माषपर्णी । इति शब्दचन्द्रिका ॥ माषाणी इति भाषा ॥ पाण्डुवर्णस्त्री । इति मुग्धबोध- व्याकरणम् ॥

"https://sa.wiktionary.org/w/index.php?title=पाण्डुः&oldid=148022" इत्यस्माद् प्रतिप्राप्तम्