पाण्डुलेख
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाण्डुलेखः, पुं, (पाण्डुर्लेखः ।) पाण्डुलिपिः । मुसविदा इति पारस्यभाषा ॥ यथाह व्यासः । “पाण्डुलेखेन फलके भूमौ वा प्रथमं लिखेत् । न्यूनाधिकन्तु संशोध्य पश्चात् पत्रे निवेशयेत् ॥ फलकं काष्ठादिपट्टकम् ।” इति व्यवहार- तत्त्वम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाण्डुलेख¦ पु॰ (मुसविदा) ख्याते पूर्वपक्षादिलेश्चनभेदे पाण्डु-लेख्यादयोऽप्यत्र। तत्प्रकारादि वीरमि॰ उक्तो यथा
“अयञ्च पक्षः प्राक्पाण्डुलेख्यं भूमिफलकादौ कारयित्वाशोधितः पश्चात्पत्रे लेखनीयः तथा च वृहस्पतिः
“अधिकां ञ्छातयेदर्थान् न्यूनांश्च परिपूरयेत्। भूमौनिवेशयेत्तावद्यावदर्थो विनिश्चितः” शातयेदुद्वपेत् भूमा-विति पाण्डुलेख्ययोग्याधारोपलक्षणम्। अतएवाहस एव
“पूर्वपक्षं स्वभावोक्तं प्राड्विवाकोऽभिलेखयेत्। पाण्डुलेखेन फलके ततः पत्रे विशोधितम्” इति। स्वभावोक्तन्न भयाद्युपाधिनोक्तम्। व्यासोऽपि
“पाण्डु-लेखेन फलके भूमौ वा प्रथमं लिखेत्। ऊनाधिकन्तुसंशोध्य पश्चात्पत्रे निवेशयेत्”। शोधनञ्चोत्तरयोग्यावधिविधेयम् न ततःपरमनवस्थापत्तेरदृष्टार्थतापाच्च। तथाच नारदः
“शोधयेत्पूर्ववादन्तु यावन्नोत्तरदर्शनम्। अवष्टब्धस्यीत्तरेण निवृत्तं शोधनम्भवेत्” अवष्टब्धस्योत्तर-योग्यस्य। यस्त्वर्य्यप्रगलभत्वात् पक्षदोषगुणहानादानाभ्यांशोधयितुमशक्तस्तस्य वक्तव्यार्थं निर्धार्य्य सभ्यैरेव संशो-धनीयः। यथाह वृहस्पतिः
“अभियोक्ताऽप्रगल्भ-त्वाद्वक्तुन्नोत्सहते यदा। सभ्यैस्तु शोधनन्तस्य कार्य्यम-र्थानुरूपतः” इति। यदि भाषामशोधयित्वैवोत्तरन्दाप-यन्ति सभ्यास्तदा रागाल्लोभाद्भयाद्वापीत्याद्युक्तदण्डेनसभ्यान् दण्डयित्वा पुनः पतिज्ञालेखनपूर्वकं व्यवहारःप्रबर्त्तनीयो राज्ञेति तात्पर्य्यम्। यदा त्वर्थिप्रत्यर्थिनो-र्लोखनापाटवाद्राजकीयलेखकद्वारा तौ भाषोत्तरे लेख-यतः। स चान्यतरपक्षपातेनान्यथा लिखत्यन्यत् त राज्ञाचौरवद्दण्ड्य इत्याह कात्यायनः
“अन्यदुक्तं लिखेदन्य-द्योऽर्थिप्रत्यर्थिना वचः। चौरवत्त्रासयेत्तन्तु धार्मिणःपृथिवीपतिः” इति। [Page4297-a+ 38]
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाण्डुलेख¦ m. (-खः) A sketch made with chalk, a draft.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाण्डुलेख/ पाण्डु--लेख n. an outline or sketch made with a style or with chalk Ya1jn5. Sch. L.