पातकम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पातकम्, क्ली, (पातयति अधो गमयति दुष्क्रिया कारिणमिति । पत + णिच् + ण्वुल् ।) नरक- साधनमिति यावत् । तत्पर्य्यायः । अशुभम् २ दुष्कृतम् ३ दुरितम् ४ पापम् ५ एनः ६ पाप्मा ७ किल्विषम् ८ कलुषम् ९ किण्वम् १० कल्मषम् ११ वृजिनम् १२ तमः १३ अंहः १४ कल्कम् १५ अघम् १६ पङ्कम् १७ । इति हेम- चन्द्रः ॥ तत्तु नवविधं यथा । अतिपातकम् १ महापातकम् २ अनुपातकम् ३ उपपातकम् ४ सङ्करीकरणम् ५ अपात्रीकरणम् ६ जातिभ्रंश- करम् ७ मलावहम् ८ प्रकीर्णकम् ९ । इति प्रायश्चित्तविवेकः ॥ एषां विवरणं तत्तच्छब्दे द्रष्टव्यम् ॥ कायवाङ्मनःकृतानि दशविधपापानि यथा, -- “अदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोपसेवा च कायिकं त्रिविधं स्मृतम् ॥ पारुष्यमनृतञ्चैव पैशुन्यञ्चापि सर्व्वशः । असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतुर्व्विधम् ॥ परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् । वितथाभिनिवेशश्च त्रिविधं कर्म्म मानसम् ॥” इति तिथ्यादितत्त्वम् ॥
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--to kill one to advance one's own interest is sin; but not so, if done for the sake of many. वा. ६२. १६१-2.
