सामग्री पर जाएँ

पातञ्जलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पातञ्जलम्, क्ली, (पतञ्जलिना स्वनामविश्रुतमह- र्षिणा प्रणीतं प्रोक्तं वा इति अण् ।) पतञ्जलि- मुनिप्रणीतपादचतुष्ठयात्मकयोगकाण्डनिरूपक- दर्शनशास्त्रविशेषः ॥ तत्र प्रथमे पादे अथ योगानुशासनमिति योगशास्त्रारम्भे प्रतिज्ञां विधाय योगश्चित्तवृत्तिनिरोध इत्यादिना योग- लक्षणमभिधाय समाधिं सप्रपञ्चं निरदिक्षद्भग- वान् पतञ्जलिः ॥ १ ॥ द्बितीये तपःस्वाध्याये- श्वरप्रणिधानानि क्रियायोग इत्यादिना व्युत्थित- चित्तस्य क्रियायोगं यमादीनि पञ्च बहिरङ्गानि साधनानि ॥ २ ॥ तृतीये । देशबन्धश्चित्तस्य धार- णेत्यादिना धारणाध्यानसमाधित्रयमन्तरङ्गं संयमपदवाच्यं तत्रावान्तरफलं विभूतिजातम् ॥ ३ ॥ चतुर्थे जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धय इत्यादिना सिद्धिप्रपञ्चनपुरःसरं परमं प्रयो- जनं कैवल्यम् ॥ ४ ॥ प्रधानादीनि पञ्चविंशति- तत्त्वानि साङ्ख्योक्तान्येवात्रापि । षड्विंशस्तु परमेश्वरोऽधिकः । इति सर्व्वदशनसंग्रहः ॥

"https://sa.wiktionary.org/w/index.php?title=पातञ्जलम्&oldid=148073" इत्यस्माद् प्रतिप्राप्तम्