पातालगरुडी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पातालगरुडी, स्त्री, (पातालाख्या गरुडी ।) लता- विशेषः । छेउडा इति हिन्दीभाषा ॥ तत्- पर्य्यायः । बत्सादनी २ सोमवल्ली तिक्ताङ्गा ४ मेचकाभिधा ५ तार्क्षी ६ सौपर्णी ७ गारुडी ८ र्दीर्घकाण्डा ९ दृढकाण्डा १० महाबला ११ दीर्घवल्ली १२ दृढलता १३ । अस्या गुणाः । मधुरत्वम् । पित्तदाहास्रदोषविषदोषनाशि- त्वम् । वृष्यत्वम् । सन्तर्पणत्वम् । रुच्यत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “छिलिहिण्डो महामूलः पातालगरुडाह्वयः । छिलिहिण्डः परं वृष्यः कफघ्नः पवनापहः ॥” इति भावप्रकाशः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पातालगरुडी¦ स्त्री छिलिहिण्डाख्ये लताभेदे राजनि॰। भावप्र॰ अस्य पुंस्त्वमुक्तं यथा
“छिलिहिण्डा महामूलः पातालगरुडाह्वयः। छिलिहिण्डः परं वृष्यःकफघ्नः पवनापहः”।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पातालगरुडी/ पाताल--गरुडी f. a species of creeper Bhpr. L.