पातालम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पातालम्, क्ली, (पतन्त्यस्मिन् दुष्क्रियावन्त इति । पत + “पतिचण्डिभ्यामालञ् ।” उणां । १ । ११६ । इति आलञ् । पादस्य तले वर्त्तते इति पृषोदरात् साधुरित्येके ।) विवरम् । वडवानलः । इति मेदिनी ॥ लग्नाच्चतुर्थस्थानम् । यथा, -- “पातालं हिवुकञ्चैव सुहृदम्भश्चतुथकम् ॥” इति ज्योतिस्तत्त्वम् ॥ स्वनामख्यातभुवनविशेषः । तत्पर्य्यायः । अधो- भुवनम् २ बलिसद्म ३ रसातलम् ४ नागलोकः ५ । इत्यमरः ॥ अधः ६ उरगस्थानम् ७ ॥ * ॥ सप्तपातालानि यथा, -- “अतलं नितलञ्चैव वितलञ्च गभास्तमत् । तलं सुतलपाताले पातालानि तु सप्त वै ॥” इति शब्दरत्नावली ॥ शेष उवाच । “कथयामि महाभाग ! पातालस्य विनिर्णयम् । क्रमादेव निबोधैतत् सावधानो द्विजर्षभ ! ॥ पातालानि च सप्तैव मुनयः संप्रचक्षते । अतलं वितलञ्चैव सुतलञ्च तलातलम् ॥ महातलञ्च विख्यातं ततो ज्ञेयं रसातलम् । ततः पातालमित्येवं सप्त पातालसंज्ञकाः ॥ एते स्वर्गाधिकसुखा विलस्वर्गाः प्रकीर्त्तिताः । समृद्धभवनोद्यानविहाराक्रीडचत्वराः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पातालम् [pātālam], [पतत्यस्मिन्नधर्मेण पत्-आलञ्; cf. Uṇ.1.114]
The last of the seven regions or worlds under the earth said to be peopled by Nāgas. the seven regions are: अतल, वितल, सुतल, रसातल, तलातल, महातल and पाताल.
The lower regions or world in general; मा मेति व्याहरत्येव तस्मिन् पातालमभ्यगात् R.15.84;1.8; पातालान्न विमोचितो बत बली नीतो न मृत्युः क्षयम् Subhāṣ.
An excavation, a hole.
Submarine fire.
(In astrol.) The fourth house or sign from that in which the sun is present.
लः A kind of instrument for distillation or the calcination and sublimation of metals.
N. of Jupiter's year (of 361 days). -Comp. -गङ्गा the Ganges of the lower world. -ओकस् m., -निलयः, -निवासः, -वासिन् m.
a demon.
a Nāga or a serpent-demon. -तलम्, -मूलम् the bottom of Pātāla. -मुखम् a great hollow (महागर्त); यत्त्वद्य पातालमुखे पतन्तं पाणौ गृहीत्वा प्रतिसंहरेत Mb. 3.268.4. -मूलम् the centre or gravity; आस्ते पातालमूलस्थः शेषो$शेषसुतर्चितः V. P.2.5.2. -यन्त्रम् See पातालः (1).
