सामग्री पर जाएँ

पात्त्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पात्त्रम्, क्ली, (पततीति । पत + क्विप् । पतं अधः- पतन्तं जनं त्रायते । त्रै + कः । ततः स्वार्थे प्रज्ञा- द्यण् निम्नेऽस्य निरुक्तिश्च दर्शनीया ।) पापि- त्राता । यथा, भविष्यपुराणे । “सर्व्वषामेव पात्त्राणां परं पात्त्रं महेश्वरः । पतन्तं त्रायते यस्मादतीवनरकार्णवात् ॥” महेश्वर इति प्रदर्शकं हेतोरविशेषात् । तथा नन्दिपुराणम् । “पात्त्राण्याध्यात्मिका मुख्या विशुद्धाश्चाग्निहो- त्रिणः । देवताश्च तथा मुख्या गोदानं ह्येतदुत्तमम् ॥” इति प्रायश्चित्ततत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=पात्त्रम्&oldid=148114" इत्यस्माद् प्रतिप्राप्तम्