पात्रम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पात्रम्, क्ली, पाति रक्षति क्रियामाधेयं वा । पिब- न्त्यनेनेति वा । पा रक्षणे पा पाने वा + “सर्व्व- धातुभ्यः ष्ट्रन् ।” उणां ४ । १५८ । इति ष्ट्रन् ।) आधेयधारणवस्तु । तत्पर्य्यायः । अमत्रम् २ भाजनम् ३ । इत्यमरः । २ । ९ । ३३ ॥ भाण्डम् ४ कोशः ५ कोषः ६ पात्री ७ कोशी ८ कोषी ९ कोशिका १० कोषिका ११ । इति शब्दरत्ना- वली ॥ (यथा, देवीभागवते । १ । २ । ४० । “सकलगुणगणानामेकपात्रं पवित्र- मखिलभुवनमातुर्नाट्यवद्यद्विचित्रम् ॥”) योग्यम् । स्रुवादि । राजमन्त्री । तीरद्वयान्त- रम् । इति मेदिनी ॥ पातार इति भाषा ॥ पर्णम् । नाट्यानुकर्त्ता । इति हेमचन्द्रः ॥ आढकपरिमाणम् । इति वैद्यकपरिभाषा ॥ * ॥ (यथा, चरके कल्पस्थाने १२ अध्याये । “ -- चतुः प्रस्थमथाढकम् । पात्रं तदेव विज्ञेयं -- ॥”) पात्राणां विधिर्यथा, -- “हेमपात्रेण सर्व्वाणि लभते चेति तान्मुने ! । अर्घ्यं दत्त्वा तु रौप्येण आयूराज्यसुतान् लभेत् ॥ ताम्रपात्रेण सौभाग्यं धर्म्मं मृण्मयसम्भवैः । वार्क्षपात्राणि रम्याणि नैष्ठिकादिषु कारयेत् ॥ शैलानि क्रूरजातीनां रक्तानि सर्व्वकामिनाम् । धातूत्तमानि पात्राणि नृपराष्ट्रविवृद्धये ॥ त्रपुसीसकलौहानि अन्त्यजादिषु कारयेत् । विवाहयज्ञश्राद्धेषु प्रतिष्ठासु विशेषतः ॥ पात्राणाञ्चाद्वरः कार्य्यः पात्राण्येवोत्तमानि च । पात्रेषु पृथिवी दुग्धा सुधा पात्रेषु धार्य्यते ॥ देवाः सोमः क्रतुर्यज्ञः पात्राण्येवं विदुर्बधाः । बलिहोमक्रियादीनि विना पात्रैर्न सिध्यति ॥ तस्माद्यज्ञाङ्गमेवातः पात्रञ्चाग्र्यं महामुने ! ॥” तत्परिमाणादिर्यथा, -- “षट्त्रिंशदङ्गुलं पात्रञ्चोत्तमं परिकीर्त्तितम् । मध्यमं तत्त्रिभागेण भागं कन्यसमीरितम् ॥ वस्वङ्गुलप्रमाणन्तु तत् पात्रं कारयेत् क्वचित् । नानाविचित्ररूपाणि पौण्डरीकाकृतीनि च ॥ शङ्खनीलोत्पलाकारपात्राणि परिकल्पयेत् । रत्नादिरचितान् कुर्य्यात् काञ्चीमूलसुसञ्चितान् ॥ यथाशोभं यथालाभं तथा पात्राणि कारयेत् । विना पात्रेण यः कुर्य्यात् प्रतिष्ठायाज्ञिकीं क्रियाम् । विफला भवते सर्व्वा वाहनादिधनापहा ॥” इति देवीपुराणम् ॥ * ॥ भोजनपात्राणि भोजनशब्दे द्रष्टव्यानि ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पात्रम् [pātram], [पाति रक्षत्याधेयं, पिबत्यनेन वा पा-ष्ट्रन् Tv.]
A drinking-vessel, cup, jar.
A vessel or pot in general; पात्रे निधायार्घ्यम् R.5.2,12; any sacrificial vessel or utensil.
A receptacle of any kind, recipient; दैन्यस्य पात्रतामेति Pt.2.11.
A reservoir.
A fit or worthy person, a person fit or worthy to receive gifts; वित्तस्य पात्रे व्ययः Bh.2.82; अदेशकाले यद् दानमपात्रेभ्यश्च दीयते Bg.17.22; Y.1.21; R.11.86.
An actor, adramatis persona; तत् प्रतिपात्रमाधीयतां यत्नः Ś.1; उच्यतां पात्रवर्गः V.1. dramatis personae.
A king's minister.
The channel or bed of a river. सुरस्रवन्त्या इव पात्रमागतम् N.16.11;15.86.
Fitness, propriety.
An order, command.
A leaf.
त्रः A kind of measure (आढक).
A preservative from sin.
त्री A vessel, plate, dish; भुञ्जन्ते रुक्मपात्रीभिर्यत्राहं परिचारिका Mb.3.3. 13;233.49.
A small furnace.
N. of Durgā.-Comp. -आसादनम् the placing of sacrificial utensils.-उपकरणम् ornaments of a secondary kind (as bells, chowries &c.).
पालः a large paddle used as a rudder.
the rod of a balance (तुलाघट). -भृत् m. a servant; -मेलनम् (In dram.) the bringing together of the characters of the play. -शेषः scraps of food.
संस्कारः the cleaning or purification of a vessel.
the current of a river. -संचारः the handing round of vessels at a meal; Mb.
