पाथोधिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाथोधिः, पुं, (पाथांसि धीयन्तेऽत्र । धा + कि ।) समुद्रः । इति त्रिकाण्डशेषः ॥ (यथा, राज- तरङ्गिण्याम् । ३ । ६८ । “वशीकृतेयं पृथिवी कृत्स्ना भवदनुग्रहात् । जेतुं द्वीपान् कथ्यतान्तु युक्तिः पाथोधिलङ्घने ॥”)
