पादजः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पादजः, पुं, (पद्भ्यां जायते इति । जन + डः । “पद्भ्यां शूद्रोऽजायत ।” इति श्रुतेर्ब्रह्मणः पद्भ्यां जातत्त्वात्तथात्वम् ।) शूद्रः । इति त्रिकाण्डशेषः ॥ (यथा, हरिवंशे भविष्यपर्व्वणि । ३९ । ६३ । “न विप्रा न च राजानो न वैश्या न च पादजाः ॥” पादोद्भवमात्रे, त्रि ॥)
