पादपः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पादपः, पुं, (पादेन मूलेन पिबति रसानिति । पा + कः ।) वृक्षः । इत्यमरः ॥ (यथा, हितोप- देशे । १ । ६३ । “यत्र विद्बज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि । निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ॥” पादौ पाति रक्षतीति । पा + रक्षणे + कः ।) पादपीठः । इति मेदिनी । पे, २१ ॥
