पादप्रक्षालनम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पादप्रक्षालनम्, क्ली, (पादयोः प्रक्षालनम् ।) चरणधौतम् । पा धोओया इति भाषा ॥ अस्य गुणाः । मेधाजनकत्वम् । पवित्रत्वम् । आयुष्य- त्वम् । अलक्ष्मीकलिनाशकत्वञ्च । इति राज- वल्लभः ॥ (यथा, च, -- “पादप्रक्षालनं पादमलरोगश्रमापहम् । चक्षुःप्रसादनं वृष्यं रक्षोघ्नं प्रीतिवर्द्धनम् ॥” इति चिकित्सितस्थाने चतुर्व्विंशेऽध्याये सुश्रुते- नोक्तम् ॥)
