सामग्री पर जाएँ

पादशोथः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पादशोथः, पुं, (पादोद्भवः शोथः । शाकपार्थि- वादिवत् समासः ।) पादगतशोफः । यथा, -- “अनन्योपद्रवकृतः शोथः पादसमुत्थितः । पुरुषं हन्ति नारीन्तु मुखजो गुह्यजो द्वयम् ॥” इति माधवकरः ॥ (यथा च हारीते चिकित्सितस्थाने २६ अः ॥ “शोथो भवेच्च विकलेन्द्रियरोममार्गः क्षीणे बले वपुषि चाम्लकटूष्णसेवया । शैत्यात्तथा विशदपिच्छलसेवनेन रूक्षाभिघातपतनेन च धारणाद्वा ॥ आमाशये गतिरतोऽपि नरस्य यस्य अन्ते प्रधावति ततोऽपि च दोष एषः । करोति पाणिचरणे च पृथक् प्रसूतो द्वन्द्वेन वा भवति शोथविकारचारः ॥ नरस्य चान्तःप्रभवाश्च शोथाः साध्या भवेयुर्विनता मुखेषु । असाध्यकाः सर्व्वशरीरगाश्च पादे स्त्रिया वा वदने नरस्य ॥”)

"https://sa.wiktionary.org/w/index.php?title=पादशोथः&oldid=148190" इत्यस्माद् प्रतिप्राप्तम्