सामग्री पर जाएँ

पादोदकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पादोदकम्, क्ली, (पादप्रक्षालनजातं उदकम् । शाकपार्थिवादिवत् समासः ।) चरणधौत- जलम् । चरणामृतम् । यथा, -- “हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः । पादोदकञ्च निर्म्माल्यं मस्तके यस्य सोऽच्युतः ॥ नैवेद्यमन्नं तुलसीविमिश्रं विशेषतः पादजलं पिबेच्च । योऽश्नाति नित्यं प्रयतो मुरारेः प्राप्नोति सुप्रेमयुतां स भक्तिम् ॥ हत्यां हन्ति यदङ्घ्रिसङ्गतुलसीस्तेयञ्च पादोदकं नैवेद्यं बहुमद्यपानदुरितं गुर्व्वङ्गनासङ्गमम् । भक्त्याधीनमतिः स्थितिर्हरिजने तत्संगतिः सङ्गजा शालग्रामशिलादिमूर्त्तिमहितां जानन्ति के वै हरेः ॥” इति पाद्मोत्तरखण्डे १०० अध्यायः ॥ * ॥ अथ श्रीचरणोदकाभिषेकमाहात्म्यं पद्मपुराणे । “स स्नातः सर्व्वतीर्थेषु सर्व्वयज्ञेषु दीक्षितः । शालग्रामशिलातोयैर्योऽभिषेकं समाचरेत् ॥ गङ्गागोदावरीरेवानद्यो मुक्तिप्रदास्तु याः । निवसन्ति सतीर्थास्ताः शालग्रामशिलाजले ॥ कोटितीर्थसहस्रैस्तु सेवितैः किं प्रयोजनम् । तीर्थं यदि भवेत् पुण्यं शालग्रामशिलोद्भवम् ॥” तत्रैव गौतमाम्बरीषसंवादे । “येषां धौतानि गात्राणि हरेः पादोदकेन वै । अम्बरीष ! कुले तेषां दासोऽस्मि वशगः सदा ॥ राजन्नेतानि तावच्च तीर्थानि भुवनत्रये । यावन्न प्राप्यते तोयं शालग्रामाभिषेकजम् ॥” स्कान्दे कार्त्तिकमाहात्म्ये । “गृहेऽपि वसतस्तस्य गङ्गास्नानं दिने दिने । शालग्रामशिलातोयैर्योऽभिषिञ्चति मानवः ॥” तत्रैवान्यत्र । “यानि कानि च तीर्थानि ब्रह्माद्या देवता- स्तथा । विष्णुपादोदकस्यैते कलां नार्हन्ति षोडशीम् ॥ शालग्रामोद्भवो देवो देवो द्वारवतीभवः । उभयोः स्नानतोयेन ब्रह्महत्या निवर्त्तते ॥” किञ्च । “स वै चावभृतस्नातः स च गङ्गाजलाप्लुतः । विष्णुपादोदकं कृत्वा शङ्खेयः स्नाति मानवः ॥” श्रीनृसिंहपुराणे । “गङ्गाप्रयागगयनैमिषपुष्कराणि पुण्यानि यानि कुरुजाङ्गलयामुनानि । तापत्रयानलो योऽसौ न शाम्येत् सकलाब्धिभिः । द्रुतं शाम्यति सोऽल्पेन श्रीमद्बिष्णुपदाम्बुना ॥ अघास्त्राभेद्यकवचं भवाग्निस्तम्भनौषधम् । सर्व्वाङ्गैः सर्व्वथा धार्य्यं पाद्यं शुचिसदः सदा ॥ अमृतत्वावहं नित्यं विष्णुपादाम्बु यः पिबेत् । स पिबत्यमृतं नित्यं मासे मासे तु देवताः ॥ माहात्म्यमियदित्यस्य यो वक्ता सोऽपि निर्भयः । न त्वनर्घ्यमणेर्मूल्यं कलयन्नघमश्नुते ॥” अन्यत्रापि । “स ब्रह्मचारी स व्रती आश्रमी च सदा शुचिः । विष्णुपादोदकं यस्य मुखे शिरसि विग्रहे ॥ जन्मप्रभृतिपापानां प्रायश्चित्तं यदीच्छति । शालग्रामशिलावारि पापहारि निषेव्यताम् ॥” अतएव तेजोद्रविणपञ्चरात्रे श्रीब्रह्मोक्तम् । “पीठप्लणालादुदकं पृथगादाय पुत्त्रक ! । सिञ्चयेन्मूर्द्ध्नि भक्तानां सर्व्वतीर्थमयं हि तत् ॥” इति । “पादोदकस्य माहात्म्यं विख्यातं सर्व्वशास्त्रतः । लेखितुं शक्नुयात् को हि सिन्धूर्मीन् गणयन्नपि ॥ विशेषतश्च पादोदं तुलसीदलसंयुतम् । शङ्खे कृत्वा वैष्णवेभ्यो दत्त्वा प्राग्वत् पिबेत्स्वयम् ॥” अथ शङ्खकृतपादोदकमाहात्म्यं स्कान्दे ब्रह्म- नारदसंवादे । “कृत्वा पादोदकं शङ्खे वैष्णवानां महात्मनाम् । यो दद्यात्तुलसीमिश्रं चान्द्रायणशतं लभेत् ॥ गृहीत्वा कृष्णपादाम्बु शङ्खे कृत्वा तु वैष्णवः । यो वहेत् शिरसा नित्यं स मुनिस्तापसोत्तमः ॥” पाद्मे देवदूतविकुण्डलसंवादे । “शालग्रामशिलातोयं यदि शङ्खभृतं पिबेत् । हत्याकोटिविनाशं तु कुरुते नात्र संशयः ॥” अगस्त्यसंहितायाञ्च । “शालग्रामशिलातोयं तुलसीदलवासितम् । ये पिबन्ति पुनस्तेषां स्तन्यपानं न विद्यते ॥ श्रीविष्णोर्वैष्णवानाञ्च पावनञ्चरणोदकम् । सर्व्वतीर्थमयं पीत्वा कुर्य्यादाचमनं न हि ॥” तदुक्तं स्कान्दे श्रीशिवेन । “विष्णोः पादोदकं पीत्वा पश्चादशुचिशङ्कया । आचामति च यो मोहाद्ब्रह्महा स निगद्यते ॥” श्रुतिश्च । “भगवान् पवित्रो भगवत्पादौ पवित्रौ पादोदकं पवित्रं न तत्पान आचमनीयं यथा हि सोम इति ।” सौपर्णे च । “विष्णुपादोदकं पीत्वा भक्तपादोदकं तथा । य आचामति संमोहात् ब्रह्महा स निगद्यते ॥” इति श्रीहरिभक्तिविलासः ॥

"https://sa.wiktionary.org/w/index.php?title=पादोदकम्&oldid=148226" इत्यस्माद् प्रतिप्राप्तम्