पाद्यम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पाद्यम्, क्ली, (पादार्थमुदकम् । पाद + “पादार्घा- भ्याञ्च ।” ५ । ४ । २५ । इति यत् ।) पादाय वारि । पादप्रक्षालनार्थजलम् । इत्यमरः ॥ तत्- लक्षणं यथा, -- “पादावनेजनजलग्रहणं पात्रमद्भुतम् । लौहजं वा सरोजातं हैमं राजतमेव वा ॥ ताम्रमचरणमपि वायवेनं सतामिति ॥” इति वैखानसग्रन्थः ॥ “षडङ्गुलं प्रविस्तारमुत्सेधञ्चतुरङ्गुलम् । ओष्ठमेकाङ्गुलं कुर्य्यान्नासिकां चतुरङ्गुलाम् ॥ पृष्ठे पादसमायुक्तं चतुरङ्गुलमानतः । पाद्यपात्रमिति ख्यातं सर्व्वदेवप्रपूजने ॥” इति सिद्धान्तशेखरः ॥
