पानगोष्ठिका
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पानगोष्ठिका, स्त्री, (पानस्य पानाय वा गोष्ठिका ।) यत्र सम्भूय पीयते । मद्यपानचक्रम् । तत्- पर्य्यायः । आपानम् २ । इत्यमरः । २ । १० । ४३ ॥ चक्रानुष्ठानं यथा श्यामारहस्यधृतम् । चक्रा- कारेण पंक्त्याकारेण वा भिन्नभिन्नासने स्वशक्ति- युक्तश्चेत् युग्मयुग्मक्रमेण पद्मासनेनोपविश्य साम- यिकललाटे चन्दनं दत्त्वा शिवशक्तिबुद्ध्या पुष्पञ्च दद्यात् । ततो यदि गुरुस्तत्र तिष्ठति तदादौ गन्धादिना तं पूजयित्वा तत्पात्रे पुष्पं दत्त्वा शुद्धिसहितं तस्मै समर्प्य प्रणमेत् । गुरोरभावे तत् पात्रं जले क्षिपेत् । ततः शक्तिपात्रं शुद्धि- सहितं शक्त्यै दत्त्वा सामयिकेभ्योऽपि ज्येष्ठानु- क्रमेण वीरपात्रात् परामृतं शुद्धिसहितं दद्यात् । ततः सामयिकोऽपि भक्त्या हस्तद्वयेन संगृह्य तदुपरि मूलमन्त्रमष्टधा जप्त्वा पूर्ब्बवदानन्द- भैरवं भैरवीञ्च सन्तर्प्य गुरून् देवताञ्च सन्त- र्पयेत् । स्वस्वकल्पोक्तविधिना भूतशुद्धिं कुर्य्यात् । ततश्चक्रनायकस्तैःसह पात्रवन्दनं कुर्य्यात् । यथा, “श्रीमद्भैरवशेखरप्रविलसच्चन्द्रामृतप्लावितं क्षेत्राधीश्वरयोगिनीसुरगणैः सिद्धिः समाराधि- तम् । आनन्दार्णवकं महात्मकमिदं साक्षात्त्रिखण्डामृतं वन्दे श्रीप्रथमं कराम्बुजगतं पात्रं विशुद्धिप्रदम् ॥” इत्यभिमन्त्र्य वामहस्तेन पात्रमुत्तोल्य अन्योन्य- वन्दनं कृत्वा गृह्णामीति गुरुशक्तिसाधकेश्वराणा- माज्ञां गृह्णीयात् । ते जुषस्वेति ब्रूयुः । ततो मूला- धारात् कुण्डलिनीं इष्टदेवतास्वरूपां आजि- भावचूडामणौ च । “साक्षाद्यदि गुरुर्न स्यात्तदातोये विसर्ज्जयेत् ॥” एतत् सर्म्बं कलीतरपरम् । “दिव्यवीरमयो भावः कलौ नास्ति कदाचन ॥” इति कालीविलासवचनात् ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पानगोष्ठिका स्त्री।
पानसभा
समानार्थक:आपान,पानगोष्ठिका
2।10।42।2।4
सन्धानं स्यादभिषवः किण्वं पुंसि तु नग्नहूः। कारोत्तरः सुरामण्ड आपानं पानगोष्ठिका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पानगोष्ठिका¦ स्त्री पानार्थं गोष्ठिका।
१ सम्भूय मद्यादि-पानार्थसभायाम् तन्त्रोक्ते
२ भैरवीचक्रे च।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पानगोष्ठिका¦ f. (-का) A dram shop, a place where people drink together. E. पान drinking, गोष्ठी a station, aff. कन्।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पानगोष्ठिका/ पान--गोष्ठिका f. a drinking-party
पानगोष्ठिका/ पान--गोष्ठिका f. a tavern L.