सामग्री पर जाएँ

पानभाजनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पानभाजनम्, क्ली, (पानाय पानस्य वा भाजनं पात्रम् ।) पानपात्रम् । तत्पर्य्यायः । कंसः २ । इत्यमरः । २ । ९ । ३२ ॥ “काम्यतेऽसौ कंसः कमुक्ङ्स्पृहि नाम्नीति सः दन्त्यान्तः । स्वार्थे ष्ण्ये कांस्यञ्च । स्वर्णरजतादिनिर्म्मिते पात्रमात्रे- ऽपि कंसः । ‘कंसः स्यात् तैजसे द्रव्ये पान- पात्रेऽपि कांस्यवंत् ।’ इति शाश्वतः ॥ ‘पात्रान्तरे पानपात्रे कांस्यं कंसे त्त तैजसे ।’ इति रभसः ॥ पीयते पानं मद्यादि तस्य भाजनं पानभीज- नम् ।” इति भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=पानभाजनम्&oldid=148240" इत्यस्माद् प्रतिप्राप्तम्