सामग्री पर जाएँ

पानात्यय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पानात्ययः, पुं, (पानाद्धेतोः जातो योऽत्ययः रोग- विशेषः ।) मदात्ययरोगः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पानात्यय¦ पु॰ सुश्रुतोक्ते मद्यपानजे रोगभेदे मद्यख पा-नदोषादिकनिरूपणेन तल्लक्षणादिकं तत्रोक्तं यथा(
“मद्यमुष्णं तथा तीक्ष्णं सूक्ष्मं विशदमेव। रूक्ष-माशुकरञ्चैव व्यवायि च विकाशि च। औष्ण्याच्छीतो-पचारं तत्तैष्ण्याद्धन्ति मनोगतिम्। विशत्यवयवान्सौक्ष्म्याद्वैशद्यात्कफशुक्रनुत्। मारुतं कीपयेद्रौक्ष्या-दाशुत्वादाशुकर्मकृत्। हर्षदञ्च व्यवायित्वाद्विकाशित्वाद्वि-[Page4306-a+ 38]{??}। तदम्लं रसतः प्रोक्त{??} रोचनदीपनम्। केचिञ्चवणवर्जांस्तु रसानत्रादिशन्ति हि। स्निग्धै-स्तदन्नैर्मांसैश्च भक्ष्यैश्च सह सेवितम्। भवेदायुःप्रकर्षाय{??}योपचयाय च। काम्यता मनसस्तुष्टिर्द्धैर्य्यं तेजो-ऽतिविक्रमः। विधिवत्सेव्यमाने तु मद्ये सन्निहितागुप्याः। तदेवानन्नमज्ञेन सेव्यमानममात्रया। काया-{??}नाह्यग्निशमं समेत्य कुरुते मदम्। मदेम करणा-नान्तु भावान्यत्वे कृते सति। निगूढमपि भावं स्वम्प्र-{??}शी कुरुते{??}वशः। त्र्यवस्थश्च मदो ज्ञेयः पूर्वो भध्यो-ऽथ पश्चिमः। पूर्वे वीर्य्यरतिप्रीतिहर्षभाष्यादिवर्द्ध-नम्। प्रकापो मध्यमे हर्षो युक्तायुक्तक्रियान्तथां। विसंज्ञः पश्चिमे शेते नष्टकर्मक्रियागुणः। श्लैष्मिकान-ल्पपित्तांश्च स्निग्धान्मात्रोपसेविनः। पानं न बाधतेऽत्यर्थंविपरीतांस्तु वाधते। निर्भक्तमेकान्तत एव मद्यं निषे-{??}मार्ण मनुजेम नित्यम्। उत्पादयेत् कष्टतमान्विका-रानासादयेच्चापि शरीरभेदम्। क्रुद्धेन भीतेन पिपा-सितेन शोकाभितप्तेन बुभुक्षितेन। व्यायामभाराध्वपरि-क्षतेन वेगावरोधाभिहतेन चापि। अत्यम्लभक्ष्यावततो-दरेण साजीर्णभुक्तेन तथा बलेन। उष्णाभितप्तेन चसेव्यमानं करोति मद्यं विविधान्विकारान्। पानात्ययंपरमद{??}नाजीर्ण्णमथापि वा। पानविभ्रममुग्रञ्च तेषांवक्ष्यामि लक्षणम् स्तम्भाङ्गमर्दहृदयग्रहतोदकम्पाःपानात्ययेऽनिलकृते शिरसो रुजश्च। स्वेदप्रलापमुख-शोपणदाहमूर्च्छाः पित्तात्मके वदनलोचनपीतता च। श्ल-{??}त्मके वमथुशीतकफपसेकाः सर्वात्मके भवति सर्वविका-रसम्बत्। ऊष्मा शरीरगुरुता विरसाननत्वं श्लेष्माधि-कत्वमरुचिर्मलमूत्रभङ्गः। लिङ्गं परस्य तु मदस्य व-दन्ति तज्ज्ञास्तृष्णारुजा शिरसि सन्धिषु चापि भेदः। आध्मानमद्गिरणमम्लरसो विदाहोऽजीर्ण्णस्य पानजनि-तस्य वदन्ति लिङ्गम्। ज्ञेयानि तत्र भिषजा सुविनि-श्चितानि पित्तप्रकोपजनितानि च कारणानि। हृद्गात्र-तोदवमथुज्वरकण्टधूममूर्च्छाकफस्रवणमूर्द्धरुजो विदाहः। द्वेषः सुरान्नविकृतेषु च तेषु तेषु तं पानविभ्रममुशन्त्य-खिलेन धीराः। हीनोत्तरौष्ठमतिशीतममन्ददाहं तैल-प्रभास्यमतिमानहतं विजह्यात्। जिह्वौष्ठदन्तमसितंत्वथवापि नीलं पीते च यस्य नयने रुधिरप्रभे च। हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि चपानहतं मजन्ते”। परममदपानाजीणेपानविभ्रमा[Page4306-b+ 38] अपि तत्रोक्ते मद्यपानजे रोगमेदे तल्लक्षणमत्रैवोक्तम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पानात्यय¦ m. (-यः) Morbid state after intoxication. E. पान, and अत्यय end.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पानात्यय/ पाना m. " end of -ddrinking " id. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=पानात्यय&oldid=292666" इत्यस्माद् प्रतिप्राप्तम्