पानीयशालिका
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पानीयशालिका, स्त्री, (पानीयस्य जलस्य वित- रणार्थं शालिका शालागृहमित्यर्थः ।) जला- वस्थानगृहम् । पानिशाला इति जलछत्र इति च भाषा । तत्पर्य्यायः । प्रपा २ । इत्यमरः ॥ तत्कर्त्तृफलं यथा, -- “कूपारामप्रपाकारी तथा वृक्षादिरोपकः । कन्याप्रदः सेतुकारी स्वर्गमाप्नोत्यसंशयम् ॥” इत्युद्वाहतत्त्वे यमः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पानीयशालिका स्त्री।
जलशाला
समानार्थक:प्रपा,पानीयशालिका
2।2।7।2।4
चैत्यमायतनं तुल्ये वाजिशाला तु मन्दुरा। आवेशनं शिल्पिशाला प्रपा पानीयशालिका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पानीयशालिका¦ स्त्री पीयतेऽस्याम् आधारे अनीयर् ता-दृशी शाला पानीथवितरक्षार्थं वा शाला ततः स्वार्थेक कापि अतैत्त्वम्। प्रपायाम् (जलसत्रगृहे) अमरः। तद्दानविधिः हेमाद्रि॰ दा॰ भविष्यपु॰ उक्तो यथा
“अतीते फाल्गुने मासि प्राप्ते चैव महोत्सवे। पुण्ये-ऽह्नि विप्रकथिते ग्रहचन्द्रबलान्विते। मण्डपं कार-येद्विद्वान् घनच्छायं सनोरमम्। पुरस्य मध्ये पथि वाचैत्यवृक्षतलेऽथ वा। सुशीतलतलं रम्य विचित्रासनसं-युतम्। तन्मध्ये स्थापयेद्भव्यान् मणिकुम्भांश्च शोभ-नान्। आकल्पयुक्तान् करकान् वस्त्रैरावेष्टितानमान्। ब्राह्मणे शीलसम्पन्ने भृतिं दत्त्वा यथोदिताम्। प्रपा-पालः प्रकर्त्तव्यो बहुपुत्रपरिच्छदः। पानोयपानादश्रा-न्तान् यः कारयति मानवान्। एवंविधां प्रषां कृत्वाशुभेऽह्नि विधिपूर्वकम्। यथाशक्त्या नरश्रेष्ठ! प्रारम्भेभोजयेद्द्विजान्। ततश्चोत्सर्जयेद्विद्वान्मन्त्रेणानेन मा-नवः। प्रपेयं सर्वसामान्या भूतेभ्यः प्रतिपादिता। अस्याःप्रदानात् पितरस्तृष्वन्तु च प्रितामहाः। अनिवारितंतती देयं जलं मासचतुष्टयम्। त्रिपक्षं वा महाराज![Page4307-a+ 38] जीवानां जीवनं परम्। गन्धाद्यं सुरसं शीतं शोभनेराजते स्थितम्। प्रदद्यादप्रतिहतं मुखञ्चानवलोकयन्। प्रत्यहं कारयेतस्यां भोजनं शक्तितो द्विजान्। अनेनविधिना यस्तु ग्रीष्मे तापप्रणाशनम्। पानीयमुत्तमंदद्यात्तस्य पुण्यफलं शृणु। कपिलाशतदानस्य सम्यग-दत्तस्य यत् फलम्। तत्पुण्यफलमाप्नोति सर्वदेवैःसुपूजितः। पूर्ण्णचन्द्रप्रतीकाशं विमानमधिरुह्य सः। याति देवेन्द्रनगरं पूज्यमानोऽप्सरोगणैः। त्रिंशत्-कोट्यो हि वर्षाणां यक्षगन्धर्वसेवितम्। पुण्यक्षयादिहागत्य चतुर्वेदो द्विजो भवेत्। ततःपरं पदं याति पुनरावृत्तिदुर्लभम्”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पानीयशालिका¦ f. (-का) A place where water, &c. is distributed. E. पानीय water, शाला a place, aff. स्वार्थे-क, कापि अत इत्त्वम् |
