सामग्री पर जाएँ

पापपुरुष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पापपुरुषः, पुं, (पापः पापमयः पुरुषः ।) पाप- मयाङ्गनरः । यथा, -- “वामपार्श्वस्थितं पापपुरुषं कज्जलप्रभम् । ब्रह्महत्याशिरस्कञ्च स्वर्णस्तेयभुजद्वयम् ॥ सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् । तत्संसर्गि पदद्वन्द्वमङ्गप्रत्यङ्गपातकम् ॥ उपपातकरोमाणं रक्तश्मश्रुविलोचनम् । खड्गचर्म्मधरं क्रुद्धमेवं कुक्षौ विचिन्तयेत् ॥” इति भूतशुद्धिप्रकरणे तन्त्रसारः ॥ * ॥ “सृष्ट्वादौ पुरुषश्रेष्ठः संसारं सचराचरम् । सर्व्वेषां दमनार्थाय सृष्टवान् पापपूरुषम् ॥ द्विजातिहत्यामूर्द्धानं मदिरापानलोचनम् । सुवर्णस्तेयवदनं गुरुतल्पगतिश्रुतिम् ॥ स्त्रीहत्यानासिकञ्चैव गोहत्यादोषबाहुकम् । न्यासापहरणग्रीवं भ्रूणहत्यागलन्तथा ॥ परस्त्रीगतिवुक्कालं सुहृल्लोकवधोदरम् । शरणापन्नहत्यादिनाभिं गर्व्वकथाकटिम् ॥ गुरुनिन्दासक्थिभागं कन्याविक्रयशेफसम् । विश्वासवाक्यकथनपायुं पितृवधाङ्घ्रिकम् ॥ उपपातकरोमाणं महाकायं भयङ्करम् । कृष्णवर्णं पिङ्गनेत्रं स्वाश्रयात्यन्तदुःखदम् ॥” इति पाद्मे क्रियायोगसारे २१ अध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पापपुरुष¦ पु॰ पापात्मकः पुरुषः पुरुषाकारः। तन्त्रोक्तेवाषकुक्षिस्थे पापात्मके ध्येये नराकारे पदार्थे तन्त्रसारेभूतशुद्धिप॰। बहुपापावयवभेदयुते

२ पुरुषभेदे च। पाष्मे क्रिया॰

२१ अ॰ तत्स्वरूपमुक्तं यथा
“सृष्ट्वादौ पुरुषश्रेष्ठः संसारं सचराचरम्। सर्वेषांदमनार्थाय सृष्टवान् पापपुरुषम्। द्विजातिहत्यामूर्द्धानंमदिरापानलोचनम्। सुवर्णस्तेयवदनं गुरुतल्पगतिश्रुतिम्। स्त्रीहत्यानासिकञ्चैव गोहत्यादोपबाहुकम्। न्यासापहरणग्रीवं भ्रूणहत्यागलन्त{??}। परु{??}आगति-[Page4309-a+ 38] वुक्कानं सुहृल्लोकबधोदरम्। शरणापन्नहत्यादिनाभिंगर्वकथाकटिम्। गुरुनिन्दासक्थिभागं कन्याविक्रय-शेफसम्। विश्वासवाक्यकथनपायुं पितृबधाङ्घ्रिकम्। उपपातकरोमाणं महाकायं भयङ्करम्। कृष्णवर्णंपिङ्गनेत्रं स्वाश्रयात्यन्तदुःखदम्”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पापपुरुष¦ m. (-षः) A personification of all sin, or a male, whose head is Bra4hmanicide, whose arms are theft, whose heart is wine drinking, &c. E. पाप, and पुरुष a man.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पापपुरुष/ पाप--पुरुष m. a villainous man (a personification of all sin or archetype of a sinner) Tantras.

पापपुरुष/ पाप--पुरुष m. a villain , rascal Mn.

"https://sa.wiktionary.org/w/index.php?title=पापपुरुष&oldid=293189" इत्यस्माद् प्रतिप्राप्तम्