पापपुरुषः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पापपुरुषः, पुं, (पापः पापमयः पुरुषः ।) पाप- मयाङ्गनरः । यथा, -- “वामपार्श्वस्थितं पापपुरुषं कज्जलप्रभम् । ब्रह्महत्याशिरस्कञ्च स्वर्णस्तेयभुजद्वयम् ॥ सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् । तत्संसर्गि पदद्वन्द्वमङ्गप्रत्यङ्गपातकम् ॥ उपपातकरोमाणं रक्तश्मश्रुविलोचनम् । खड्गचर्म्मधरं क्रुद्धमेवं कुक्षौ विचिन्तयेत् ॥” इति भूतशुद्धिप्रकरणे तन्त्रसारः ॥ * ॥ “सृष्ट्वादौ पुरुषश्रेष्ठः संसारं सचराचरम् । सर्व्वेषां दमनार्थाय सृष्टवान् पापपूरुषम् ॥ द्विजातिहत्यामूर्द्धानं मदिरापानलोचनम् । सुवर्णस्तेयवदनं गुरुतल्पगतिश्रुतिम् ॥ स्त्रीहत्यानासिकञ्चैव गोहत्यादोषबाहुकम् । न्यासापहरणग्रीवं भ्रूणहत्यागलन्तथा ॥ परस्त्रीगतिवुक्कालं सुहृल्लोकवधोदरम् । शरणापन्नहत्यादिनाभिं गर्व्वकथाकटिम् ॥ गुरुनिन्दासक्थिभागं कन्याविक्रयशेफसम् । विश्वासवाक्यकथनपायुं पितृवधाङ्घ्रिकम् ॥ उपपातकरोमाणं महाकायं भयङ्करम् । कृष्णवर्णं पिङ्गनेत्रं स्वाश्रयात्यन्तदुःखदम् ॥” इति पाद्मे क्रियायोगसारे २१ अध्यायः ॥
