सामग्री पर जाएँ

पापमुक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पापमुक्तः, त्रि, पापान्मक्तः । निष्पापः । इति संक्षिप्तसारव्याकरणम् ॥ स च यथा, -- “यः समः सर्व्वभूतेषु जितात्मा शान्तमानसः । स पापेभ्यो विमुच्यत ज्ञानवान् स च वेदवित् ॥ गुणागुणपरिज्ञाता ह्यक्षयस्य क्षयस्य च । ध्यानेनैव ह्यसंमूढः स पापेभ्यः प्रमुच्यते ॥ स्वदेहे परदेहे च सुखदुःखेन नित्यशः । विचारज्ञो भवेद्यस्तु स मुच्येतैनसो ध्रुवम् ॥ अहिंसः सर्व्वभूतेषु तृष्णाक्रोधविवर्जितः । शुभन्यासः सदा यश्च स पापेभ्यः प्रमुच्यते ॥ प्राणायामैश्च निर्दह्य अधःसन्धारणानि च । व्यवस्थितमना यस्तु स पापेभ्यः प्रमुच्यते ॥ निराशीः सर्व्वतस्तिष्टेदिष्टार्थेषु न लोलुपः । परीतात्मा त्यजेत् प्राणान् सर्व्वपापात् प्रमुच्यते ॥ श्रद्दधानी जितक्रोधः परद्रव्यविवर्ज्जितः । अनसूयश्च यो मर्त्यः स पापेभ्यः प्रमुच्यते ॥ गुरुशुश्रूषया युक्तो ह्यहिंसानिरतश्च यः । क्षुद्रश्च क्षुद्रशीलश्च स पापेभ्यः प्रमुट्यते ॥ प्रशस्तानि च यः कुर्य्यादप्रशस्तानि वर्जयेत् । योऽभिगच्छति तीर्थानि विशुद्धेनान्तरात्मना । पापादुपरतो नित्यं स पापेभ्यः प्रमुच्यते ॥ उत्थाय ब्राह्मणं गच्छेन्नरो भक्त्या समन्वितः । अभिगम्य प्रयत्नेन स पापेभ्यः प्रमुच्यते ॥” इति वराहपुराणम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पापमुक्त¦ त्रि॰ पापान् मुक्तः

५ त॰। परित्यक्तपापे। पापमो-चनहेतवश्च मनुना दर्शिता यथा
“ख्यापनेनानुतापेन तपसाध्ययनेन च। पापकृन्मुच्यते पापात् तथा दानेन चापदि”। अन्ये च तस्य हेतवोवराहपु॰ दर्शिता यथा
“यः समः सर्वभूतेषु जितात्माशान्तमानसः। स पापेभ्यो विमुच्येत ज्ञानवान् सच वेदवित्। गुणागुणपरिज्ञाता ह्यक्षयस्य क्षयस्य च। ध्याने चैवं ह्यसंमूढः स पापेभ्यः प्रमुच्यते। स्वदेहेपरदेहे च सुखदुःखेन नित्यशः। विचारज्ञो भवेद्यस्तुस मुच्येतैनसो ध्रुवम्। अहिंसः सर्वभूतेषु तृष्णा-क्रोधविवर्जितः। कृतन्यासः सदा यश्च स पापेभ्यःप्रमुच्यते। प्राणायामैश्च निर्दह्य अंहः, सन्धारणारतः। व्यवस्थितमना यस्तु स पापेभ्यः प्रसुच्यते। निराशीः स-र्बतस्तिष्ठेदिष्टार्थेषु न लोलुपः। पवितात्मा त्यजेत् प्रा{??}नसर्वपापात् प्रमुच्यते। श्रद्दघानोजितक्रोपः परद्रव्यविवर्जितः। अनसूयश्च यो मर्त्यः स पापेभ्यः प्रमुच्यते। गुरुशुश्रूषया युक्तो ह्यहिंसानिरतश्च यः। क्षुद्रोऽपि क्षुद्र-शीलोऽपि स पापेभ्यः प्रमुच्यते। प्रशस्तानि सदा कुर्य्यादुअप्रशस्तानि वर्जयेत्। योऽभिगच्छति तीर्थानि तिशुद्धे-नान्तरात्मना। पापादुपरतो नित्यं स पापेभ्यः प्रमुच्यते। उत्थाय ब्राह्मणं गच्छेन्नरो भक्त्या समन्वितः। अभिगम्यप्रवत्नेन स पापेभ्यः प्रमुच्यते”। अन्येऽपि तस्य हेतवःशास्त्रान्तरेषु दृश्याः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पापमुक्त¦ mfn. (-क्तः-क्ता-क्तं) Freed from sin, liberated from all crime. E. पाप, and मुक्त set free.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पापमुक्त/ पाप--मुक्त mfn. freed from sin , purified W.

"https://sa.wiktionary.org/w/index.php?title=पापमुक्त&oldid=293258" इत्यस्माद् प्रतिप्राप्तम्