पापमुक्तः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पापमुक्तः, त्रि, पापान्मक्तः । निष्पापः । इति संक्षिप्तसारव्याकरणम् ॥ स च यथा, -- “यः समः सर्व्वभूतेषु जितात्मा शान्तमानसः । स पापेभ्यो विमुच्यत ज्ञानवान् स च वेदवित् ॥ गुणागुणपरिज्ञाता ह्यक्षयस्य क्षयस्य च । ध्यानेनैव ह्यसंमूढः स पापेभ्यः प्रमुच्यते ॥ स्वदेहे परदेहे च सुखदुःखेन नित्यशः । विचारज्ञो भवेद्यस्तु स मुच्येतैनसो ध्रुवम् ॥ अहिंसः सर्व्वभूतेषु तृष्णाक्रोधविवर्जितः । शुभन्यासः सदा यश्च स पापेभ्यः प्रमुच्यते ॥ प्राणायामैश्च निर्दह्य अधःसन्धारणानि च । व्यवस्थितमना यस्तु स पापेभ्यः प्रमुच्यते ॥ निराशीः सर्व्वतस्तिष्टेदिष्टार्थेषु न लोलुपः । परीतात्मा त्यजेत् प्राणान् सर्व्वपापात् प्रमुच्यते ॥ श्रद्दधानी जितक्रोधः परद्रव्यविवर्ज्जितः । अनसूयश्च यो मर्त्यः स पापेभ्यः प्रमुच्यते ॥ गुरुशुश्रूषया युक्तो ह्यहिंसानिरतश्च यः । क्षुद्रश्च क्षुद्रशीलश्च स पापेभ्यः प्रमुट्यते ॥ प्रशस्तानि च यः कुर्य्यादप्रशस्तानि वर्जयेत् । योऽभिगच्छति तीर्थानि विशुद्धेनान्तरात्मना । पापादुपरतो नित्यं स पापेभ्यः प्रमुच्यते ॥ उत्थाय ब्राह्मणं गच्छेन्नरो भक्त्या समन्वितः । अभिगम्य प्रयत्नेन स पापेभ्यः प्रमुच्यते ॥” इति वराहपुराणम् ॥
