पापात्मा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पापात्मा, [न्] पुं, (पापः पापविशिष्ट आत्मा वस्य । पापे अधर्म्मे आत्मा बुद्धिर्यस्येति वा ।) पापी । यथा, -- “पापात्मनां शृणु गतिं विस्तरेण वदाम्यहम् । षडशीतिसहस्राणि योजनानि दुरात्मनाम् ॥ प्रोक्तो मार्गस्य विस्तारः सर्व्वदुःखान्वितस्य च । क्वचित्क्वचित् ज्वलद्बह्निः सन्तप्तः कर्द्दमः क्वचित् । क्वचित्ं क्वचित् द्बिजश्रेष्ठ ! सन्तप्तं ताम्रबालुकम् ॥ क्वचित् क्वचित्तीक्ष्णशिलाः क्वचित्तप्तशिलास्तथा ॥ क्वचित् क्वचिच्छस्त्रवृष्टिः क्वचिदङ्गारवर्षणम् । कुत्रचिद्वह्निवृष्टिश्च कुत्रचित् पङ्कवर्षणम् ॥ उष्णाम्बुवर्षणं क्वापि क्वचित् पाषाणवर्षणम् । ज्वलदग्निरिव क्वापि सन्तप्तो वाति मारुतः ॥ गभीरा अन्धकूपाश्च तृणावृतमुखा द्विज ! । क्वापि कण्टकवृक्षाश्च नाराचसमकण्टकाः ॥ पाषाणश्रेणयः क्वापि दुरारोहाः सपन्नगाः । क्वचिद्गाढान्धकाराश्च क्वचित् शोणित- कन्धराः ॥ क्वचिद्वीरणवृक्षाश्च क्वचित् काशाः क्वचित्शराः । क्वचित् क्वचित् शर्कराश्च लोष्टवश्च क्वचित् क्वचित् ॥ क्वचिदस्थ्नां राशयश्च दुर्गन्धा मांसराशयः । क्वचित् कण्टकराशिश्च शैबालानि क्वचित् क्वचित् ॥ कीलका वलयः क्वापि क्वचिद्व्याघ्रास्तथा शिवाः । खड्गिनः करिणः क्वापि क्वचिदृक्षा भयङ्कराः ॥ एवं बहुविधक्लेशे छायाजलविवर्ज्जिते । तस्मिन्मार्गे द्विजश्रेष्ठ ! पापिनो यान्ति दुःखिनः ॥ नग्ना विमुक्तकेशाश्च प्रेताकारभयङ्कराः । गच्छन्ति पापिनस्तत्र शुष्ककण्ठौष्ठतालुकाः ॥” इति क्रियायोगसारे २२ अध्यायः ॥
