पापान्तम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पापान्तम्, क्ली, (पापं अन्तयतीति । अन्त + “कर्म्म- ण्यण् ।” ३ । २ । १ । इत्यण् ।) तीर्थघिशेषः । तस्य नामान्तरंम् पृथूदकं अनुकीर्णञ्च । यथा, -- “पृथूदके महातीर्थे त्वनुकीर्णेति नामतः । जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेस्ततः ॥ हूयमाने तदा राष्ट्रे प्रवृत्ते यज्ञकर्म्मणि । अक्षीयत ततो राष्ट्र नृपतेर्दष्कतेन वै ॥ ततः स चिन्तयामास ब्राह्मणस्य विचेष्टितम् । पुरोहितेन संयुक्तो रत्नान्यादाय सर्व्वशः ॥ प्रसादनार्थं विप्रस्य अनुकीर्णं ययौ तदा । प्रसादितः स राज्ञा च तुष्टः प्रोवाच तं नृपम् ॥ ब्राह्मणा नावमन्तव्याः पुरुषेण विजानता । ब्राह्मणश्चेदवज्ञातो नश्येत्त्रिपुरुषं कुलम् ॥ एवमुक्त्रा स नृपतिमाज्येन पयसा पुनः । उत्थापयामास मृतांस्तस्य राज्ञो हिते स्थितः ॥ तस्मिंस्तीर्थे तु यः स्नाति श्रद्दधानो जितेन्द्रियः । स प्राप्नोति नरो नित्यं मनसा चिन्ततं फलम् ॥ तत्तु तीर्थं सुविख्यातं पापान्तं नाम नामतः । यस्येह यज्ञतृप्तस्य मधु सुस्राव वै नदी ॥ तस्मिन् स्नातोऽथ भक्त्या च मुच्यते सर्व्वपातकैः । फलं प्राप्नोति यज्ञस्य अश्वमेधस्य मानवः ॥ पापान्तमिति विख्यातं तीर्थं पुण्यतमं द्विजाः ॥” इति वामनपुराणे ३८ अध्यायः ॥
