सामग्री पर जाएँ

पायसः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पायसः, पुं, क्ली, श्रीवासः ॥ टारपिन् इति भाषा । पयसा संस्कृतः । (पयसो विकार इत्यण् ।) परमान्नम् । इत्यमरमेदिनीकरौ । अस्य पाक- प्रकारो गुणाश्च । “अतप्ततण्डुलो धौतः परिभृष्टो घृतेन च । खण्डयुक्तेन दुग्धेन पाचितः पायसो भवेत् ॥ पायसः कफकृद्बल्यो विष्टम्भी मधुरो गुरुः ॥” तस्य पित्र्युद्देशेन गङ्गाम्भसि निःक्षेपे फलं यथा, -- “पितॄनुद्दिश्य यो भक्त्या पायसं मधुसंयुतम् । गुडसर्पिस्तिलैः सार्द्धं गङ्गाम्भसि विनिःक्षिपेत् ॥ तृप्ता भवन्ति पितरस्तस्य वर्षशतं हरे ! । यच्छन्ति विविधान् कामान् पतितुष्टाः पिता- महाः ॥” इति स्कान्दे काशीखण्डे २७ अध्यायः ॥ चन्द्रप्रभपायसो यथा, -- “भृष्टजीरचतुर्जातश्चन्द्रकान्तः सुरोचनः ॥” इति राजवल्लभः ॥ पयोविकारे, त्रि । यथा, -- “कन्दुपक्वानि तैलेन पायसं दधि शक्तवः । द्विजैरेतानि भोज्यानि शूद्रगेहकृतान्यपि ॥” इति तिथितत्त्वे वराहपुराणम् ॥

"https://sa.wiktionary.org/w/index.php?title=पायसः&oldid=148311" इत्यस्माद् प्रतिप्राप्तम्