पायुः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पायुः, पुं, (पाति रक्षति शरीरं मलनिस्मारणे- नेति । यद्वा, पिबति वस्त्यौषधमनेनेति । पा + “कृवापाजीति ।” उणां १ । १ । इत्युण् । “आतो युक् चिण्कृतोः ।” ७ । ३ । ३३ । इति युक् ।) मलद्वारम् । स तु गर्भस्थस्य सप्त- भिर्मासैर्भवति । इति सुखबोधः ॥ तत्पर्य्यायः । अपानम् २ गुदम् ३ च्युतिः ४ अधोमर्म्म ५ शकृद्द्वारम् ६ त्रिवलीकम् ७ वलिः ८ । इति हेमचन्द्रः । ३ । २७६ ॥ (यथा, पञ्चदशी । १ । २१ । “रजोऽशैःपञ्चभिस्तेषां क्रमात् कर्म्मेन्द्रियाणि तु । वाक्पाणिपादपायूपास्थाभिधानानि जज्ञिरे ॥”) तस्याध्यात्मादि यथा, -- “अवाग् गतिरपानश्च पायुरध्यात्ममुच्यते । अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम् ॥” इति महाभारते आश्वमेधिकपर्व्व ॥ (स्वनामख्यातो भरद्वाजपुत्त्रः । यथा, ऋग्वेदे । ६ । ४७ । २४ । “अश्वथः पायवेऽदात् ॥” “पायवे भरद्वाजपुत्त्रायैतत्संज्ञायास्मद्भ्रात्रे चाश्वथोऽश्ववानेतत्संज्ञः प्रस्तोकोऽदात् दत्त- वान् ।” इति तद्भाष्ये सायनः ॥ पालके, त्रि । यथा, ऋग्वेदे । २ । १ । ७ । “त्वं पायुर्दमे यस्तेऽविधत् ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पायुः [pāyuḥ], Ved. A guard, protector.
पायुः [pāyuḥ], The anus; पायूपस्थम् Ms.2.9,91; Y.3.92.
