सामग्री पर जाएँ

पाय्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पाय्यम्, क्ली, (मीयतेऽनेनेति । मा माने + “पाय्य- सांनाय्येति ।” ३ । १ । १२९ । इति निपातनात् ण्यद्धात्वादेः पत्वं युगागमश्च ।) परिमाणम् । इत्यमरः । २ । ९ । ८५ ॥ पानम् । इति संक्षिप्तसारोणादिवृत्तिः ॥ जलम् । निन्दनीये, त्रि । इति विश्वः ॥ (पा पाने + णिच् + ण्यत् । पाययितव्ये । यथा, सुश्रुते । १ । १६ । “घृतञ्च पाय्यः स नरः सुजीर्णे स्निग्धो विरेच्यः स यथोपदेशम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=पाय्यम्&oldid=148317" इत्यस्माद् प्रतिप्राप्तम्