सामग्री पर जाएँ

पारक्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

पारक्यम्, क्ली, (परस्मै लोकाय हितम् । पर + ष्यञ् कुक् च ।) परलोकहितकर्म्म । यथा, -- “पादेन तस्य पारक्यं कुर्य्यात् सञ्चयमात्मवान् । अर्द्धेन चात्मभरणं नित्यनैमित्तिकन्तथा ॥ पादस्यार्द्धार्द्धमर्थस्य मूलभूतं विवर्द्धयेत् । एवमाचरतः पुंसो ह्यर्थः साफल्यमृच्छति ॥” इति मार्कण्डेयपुराणम् ॥ (परस्य इदमिति । परकीये, त्रि । यथा, मनुः । १० । ९७ । “वरं स्वधर्म्मो विगुणो न पारक्यः स्वनुष्ठितः । परधर्म्मेण जीवन् हि सद्यः पतति जातितः ॥”)

"https://sa.wiktionary.org/w/index.php?title=पारक्यम्&oldid=148326" इत्यस्माद् प्रतिप्राप्तम्