पारगः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
पारगः, त्रि, (पारं गच्छतीति । पार + गम + “अन्तात्यन्ताध्वदूरपारसर्व्वानन्तेषु डः ।” ३ । २ । ४८ । इति डः ।) पारगामी । तत्पर्य्यायः । कर्त्तरीकः २ । इति शब्दमाला ॥ (यथा, महा- भारते । ४ । १४ । २१ । “उदतिष्ठन्मुदा सूतो नावं लब्धेव पारगः ॥” तथा च तत्रैव । १ । १४० । १६ । “पारगश्च धनुर्युद्धे बभूवाथ धनञ्जयः ॥”)
